भारतस्य प्रथयतया एसडीएटी स्क्वैशविश्वचषके विजिते सति प्रधानमंत्री मोदी अमित शाहश्च अदत्तां वर्धापनानि
नवदिल्ली, 15 दिसंबरमासः (हि.स.)। चेन्नईनगरे आयोजिते एसडीएटी स्क्वैशविश्वचषके भारतीयस्क्वैशदलस्य विजयप्राप्तौ प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाहश्च सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र देशवासिनः अभिनन्दनं कृतवन्तौ। रविवासरे क्रीडिते अन्तिम
स्क्वैश वर्ल्ड कप


नवदिल्ली, 15 दिसंबरमासः (हि.स.)।

चेन्नईनगरे आयोजिते एसडीएटी स्क्वैशविश्वचषके भारतीयस्क्वैशदलस्य विजयप्राप्तौ प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाहश्च सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र देशवासिनः अभिनन्दनं कृतवन्तौ। रविवासरे क्रीडिते अन्तिममुकाबले भारतदलेन हाङ्काङ्दलं 3–0 इति अङ्कैः पराजित्य प्रथमवारं एतत् प्रतिष्ठितं खिताबं स्वनाम्ना कृतम्। अस्य भव्यविजयेन सह भारतीयदलः प्रथमवारं स्क्वैश वर्ल्ड कपस्य विजेता अभवत्।

प्रधानमन्त्री नरेन्द्रमोदी भारतीयदलस्य अभिनन्दनं कृत्वा अवदत् यत् भारतीयस्क्वैशदलाय प्रथमवारं वर्ल्ड कपविजयप्राप्तौ हार्दिकाः शुभाशयाः। जोशना चिनप्पा अभय सिंह वेलावन् सेन्थिल् कुमारः अनाहत सिंहश्च असाधारणं समर्पणं दृढसङ्कल्पं च प्रदर्शितवन्तः। एषा सफलता समग्रं राष्ट्रं गौरवान्वितं करोति तथा युवजनानां मध्ये स्क्वैशक्रीडायाः लोकप्रियतामपि वर्धयिष्यति।

केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् प्रथमवारं स्क्वैश वर्ल्ड कपं जित्वा टीम् इण्डिया देशाय गौरवपूर्णं इतिहासं निर्मितवती। अतिदुर्गमान् अपि प्रतिद्वन्द्विनः पराजयितुं यत् अदम्यक्रीडाभावनां कौशलं च प्रदर्शितं तत् आगामिनीनां नूतनप्रतिभानां कृते प्रेरणारूपं भविष्यति।

---------------

हिन्दुस्थान समाचार