अतिथिभिः सुब्रमण्यम भारत्याः गृहमवाप्य ज्ञातं काश्या संबद्धः तमिलस्य इतिहासः
वाराणसी, 15 दिसम्बरमासः(हि. स.)।काशी–तमिलसङ्गमम् ४.० इत्यस्य अतिथयः हनुमानघाटे आध्यात्मिकदलेन सह सुब्रमण्यम्भारतीस्य गृहम् आगत्य काश्याः सह तमिलभाषायाः ऐतिहासिकसम्बन्धं ज्ञातवन्तः। सोमवासरे तमिलसङ्गमम् ४.० अन्तर्गतं तमिलनाडुतः आगतः आध्यात्मिकदलः ह
तमिल मेहमान पहुंचे हनुमान घाट के आश्रम


वाराणसी, 15 दिसम्बरमासः(हि. स.)।काशी–तमिलसङ्गमम् ४.० इत्यस्य अतिथयः हनुमानघाटे आध्यात्मिकदलेन सह सुब्रमण्यम्भारतीस्य गृहम् आगत्य काश्याः सह तमिलभाषायाः ऐतिहासिकसम्बन्धं ज्ञातवन्तः।

सोमवासरे तमिलसङ्गमम् ४.० अन्तर्गतं तमिलनाडुतः आगतः आध्यात्मिकदलः हनुमानघाटं प्राप्तवान्। तत्र सर्वे पवित्रायां गङ्गानद्यां स्नानं कृत्वा मातुः गङ्गायाः पूजनं विधाय सुखसमृद्ध्याः आशीर्वादं याचितवन्तः। गङ्गास्नानानन्तरं समूहः घाटस्थितेषु प्राचीनमन्दिरेषु दर्शनपूजनं कृतवान्। सर्वेभ्यः मन्दिराणां दिव्यता, भव्यता तथा इतिहासः विषदतया अवगतः कृतः।

ततः परं तमिलातिथयः हनुमानघाटस्थितं सुब्रमण्यम्भारतीस्य गृहम् अगच्छन्। तत्र ते तस्य परिवारस्य सदस्यैः सह साक्षात्कारं कृतवन्तः। समूहस्य सदस्येषु महान् जिज्ञासाभावः दृष्टः। तैः सुब्रमण्यम्भारतीगृहस्य समीपे स्थितस्य पुस्तकालयस्य अपि भ्रमणं कृत्वा तत्रत्यविषयेषु बहु ज्ञातम्। सुब्रमण्यम्भारतीगृहे भ्रमणानन्तरं एषः समूहः काञ्चीमठं प्राप्तवान् तथा तत्रत्य इतिहासस्य विषये अपि जानकारीं लब्धवान्। काशीनगरे दक्षिणभारतीयमन्दिरं दृष्ट्वा साहित्यिकदलः अत्यन्तं उत्साहितः अभवत्।

तमिलनाडुतः आगतस्य अस्य प्रतिनिधिमण्डलस्य विशिष्टः भावः दृश्यते स्म। आध्यात्मिकदलः स्वस्वरीत्या काशीनगरस्य व्याख्यां कुर्वन् आसीत्। कश्चन स्वपूर्वजान् स्मरन् आसीत्, कश्चन च संस्कृत्याः एकत्वं प्रतिपादयन् “एकभारत श्रेष्ठभारत” इति परिकल्पनां साकारयन् आसीत्। समूहस्य अतिथिः वी.के. रमणः अवदत् यत् वयं मन्दिराणां भ्रमणं कृतवन्तः। काशी–तमिलनाडयोः अद्भुतं साम्यं दृष्ट्वा वयं विस्मिताः अभवाम। अत्रत्यसंस्कृतिः अस्माकं संस्कृतिः च एका एव अस्ति। एतादृशानि आयोजनानि निरन्तरं भवितव्यानि, येन प्रधानमन्त्रिणः नरेन्द्रमोदिना परिकल्पितं “एकभारत श्रेष्ठभारत” स्वप्नं साकारं कर्तुं शक्येत।

---------------

हिन्दुस्थान समाचार