तानसेन समारोहोऽद्यारभ्य , पञ्च दिनानां स्वराणां बृष्ट्या आर्द्रीभविष्यति संगीतधान्याः ग्वालियरस्य वातावरणम्
ग्वालियरम्, 15 दिसंबरमासः (हि.स.)। भारतीयशास्त्रीयसंगीतस्य क्षेत्रे देशस्य सर्वाधिकप्रतिष्ठितः महोत्सवः “तानसेनसंगीतसमारोहः” इत्यस्य आगमनवेला सम्प्राप्ता अस्ति। मध्यप्रदेशस्य संगीतधानी ग्वालियरनगरे अद्य पञ्चदिवसीयस्य “तानसेनसमारोहस्य” भव्यः शुभारम्
विश्व-स्तरीय संगीत समागम “तानसेन समारोह”


ग्वालियरम्, 15 दिसंबरमासः (हि.स.)। भारतीयशास्त्रीयसंगीतस्य क्षेत्रे देशस्य सर्वाधिकप्रतिष्ठितः महोत्सवः “तानसेनसंगीतसमारोहः” इत्यस्य आगमनवेला सम्प्राप्ता अस्ति। मध्यप्रदेशस्य संगीतधानी ग्वालियरनगरे अद्य पञ्चदिवसीयस्य “तानसेनसमारोहस्य” भव्यः शुभारम्भः भविष्यति। एषः तानसेनसमारोहः एकशतप्रथमम् आयोजनम् अस्ति।

ऐतिहासिकात् ग्वालियरदुर्गात् समग्रं जगत् शून्यस्य परिचयं दत्तवतः “चतुर्भुजमन्दिरस्य” विषयवस्तुं आधृत्य तानसेनसमाधेः समीपे निर्मिते भव्ये आकर्षके च मञ्चे अद्य सायंकाले प्रायः षड्वादने समारोहस्य शुभारम्भः भविष्यति। अस्मिन्नेव मञ्चे उपविश्य देशविदेशयोः ब्रह्मनादस्य शीर्षस्थाः साधकाः संगीतसम्राटं तानसेनं स्वराञ्जलिं समर्पयिष्यन्ति।

जनसम्पर्काधिकारी हितेन्द्रसिंहभदौरिया रविवासरे अवदत् यत् तानसेनसमारोहस्य शुभारम्भेन सह राष्ट्रियतानसेनअलंकरणसमारोहः तथा च राजामानसिंहतोमरसम्मानसमारोहः अपि आयोजितौ भविष्यतः। प्रख्यातः शास्त्रीयगायकः पण्डितराजाकाले (मुम्बई) इत्यस्मै वर्षे 2024 तानसेनअलंकरणेन तथा सुविख्यातः सन्तूरवादकः पण्डिततरुणभट्टाचार्यः इत्यस्मै वर्षे 2025 तानसेनअलंकरणेन विभूषितौ करिष्येते। तथैव मण्डलेश्वरस्थितं साधनापरमार्थिकसंस्थानसमितिः वर्षे 2024 तथा ग्वालियरस्थितं रागायनसंगीतसमितिः वर्षे 2025 राजामानसिंहतोमरसम्मानेन अलंकृते करिष्येते।

शास्त्रीयसंगीतस्य क्षेत्रे देशविदेशयोः सर्वाधिकप्रतिष्ठिते “तानसेनसमारोहः” इत्यस्मिन् अस्मिन् वर्षे विशेषः एव रङ्गः समायोजितः अस्ति। सः अवदत् यत् एकशतप्रथमस्य तानसेनसमारोहस्य पारम्परिकः शुभारम्भः प्रातः दशवादने हजीरास्थिते सुरसम्राट् तानसेनस्य समाधौ शहनाईवादनेन ढोलीबुआमहाराजस्य हरिकथया मीलादपाठेन च चादरारोपणेन सह भविष्यति।

सायंकाले षड्वादने ग्वालियरदुर्गे स्थितस्य ऐतिहासिकस्य चतुर्भुजमन्दिरस्य विषयवस्तुं आधृत्य निर्मिते भव्ये मञ्चे अतिथिभिः औपचारिकः शुभारम्भः करिष्यते। ततः अनन्तरं सांगीतिकसभाणां प्रारम्भः भविष्यति।

तानसेनसंगीतसमारोहस्य अन्तर्गतं अस्मिन् वर्षे दश संगीतसभाः आयोजयिष्यन्ते। प्रथमासभा पञ्चदशदिसम्बरमासे सायंकाले तानसेनसमाधिपरिसरे निर्मिते भव्ये मञ्चे भविष्यति। ततः प्रतिदिनं अत्रैव प्रातःकालीनाः सायंकालीनाश्च सभाः आयोजयिष्यन्ते।

समारोहस्य अन्तर्गतं अष्टादशदिसम्बरमासे प्रातः दशवादनतः द्वे संगीतसभे समानान्तररूपेण भविष्यतः। एते सभा तानसेनसमाधिस्थलस्य मुख्ये मञ्चे तथा मुरैनाजनपदे सुप्रसिद्धे बटेश्वरमन्दिरपरिसरे च आयोजयिष्येते।

समारोहस्य अन्तिमदिने अर्थात् एकोनविंशतितमे दिसम्बरमासे प्रातःकालीनसभा संगीतशिरोमणेः तानसेनस्य जन्मस्थले बेहटनगरे भविष्यति, तथा अस्य वर्षस्य समारोहस्य अन्तिमासंगीतसभा सायंकाले गूजरीमहलपरिसरे सुसज्जिता भविष्यति।

हिन्दुस्थान समाचार