नेपाले शुभारब्धा व्याघ्राणां गणना, 2300 चित्रग्राहकाः स्थापिताः
काठमांडूः, 15 दिसंबरमासः (हि.स.)। नेपालदेशे व्याघ्राणां यथार्थसंख्यां ज्ञातुं अस्मिन् वर्षे वैज्ञानिकपद्धत्या व्याघ्रगणना सोमवासरात् आरभ्यते। राष्ट्रियोद्यान तथा वन्यजीवसंरक्षणविभागस्य अनुसारं चितवन–पर्सा, बांके–बर्दिया तथा शुक्लाफांटा–लालझाड़ी इत
नेपाल में पाए जाने वाले बाघ


काठमांडूः, 15 दिसंबरमासः (हि.स.)।

नेपालदेशे व्याघ्राणां यथार्थसंख्यां ज्ञातुं अस्मिन् वर्षे वैज्ञानिकपद्धत्या व्याघ्रगणना सोमवासरात् आरभ्यते। राष्ट्रियोद्यान तथा वन्यजीवसंरक्षणविभागस्य अनुसारं चितवन–पर्सा, बांके–बर्दिया तथा शुक्लाफांटा–लालझाड़ी इत्येतत् कोरिडोरक्षेत्रं त्रिषु ब्लॉकेषु विभज्य द्विसहस्रत्रिशतं स्वचालितक्यामेराः स्थापिताः सन्ति। एतेषु ब्लॉकेषु राष्ट्रियोद्यानानि, कोरिडोरक्षेत्राणि तथा तेषां समीपवर्तिनि मध्यवर्ती संरक्षितप्रदेशाः अपि समाविष्टाः सन्ति।

प्रायः अष्टसहस्र चतुशतं वर्गकिलोमीटर् परिमिते क्षेत्रे द्विसहस्रत्रिशतं पर्यन्तं ग्रिड्-रचनाः निर्माय स्वचालितक्यामेराट्रैप् यन्त्राणि स्थाप्यन्ते। नेपालदेशे प्रत्येकं चतुर्षु वर्षेषु व्याघ्रगणना क्रियते। चितवन–पर्सा ब्लॉके प्रथमचरणे क्यामेराः स्थापयित्वा गणना आरभ्यते। वरिष्ठः पारिस्थितिकीविद् तथा राष्ट्रियव्याघ्रगणनातकनीकीसमितेः संयोजकः हरिभद्रआचार्यः अवदत् यत् द्वयोः वर्गकिलोमीटरयोः एकस्मिन् ग्रिडे उभयदिशयोः एकैकां क्यामेरायुग्मं स्थाप्यते।

ब्लॉकस्य क्षेत्रं विशालं भवति, अतः तत् त्रिषु खण्डेषु विभज्य क्रमशः क्यामेराः स्थानान्तरयित्वा गणना क्रियते। अत्र अष्टशतानि नवशतानि वा ग्रिड्-रचनाः सन्ति। द्विशतं पञ्चाशत् त्रिशतं वा ग्रिड्-युक्तस्य एकस्य खण्डस्य कृते प्रायः पञ्चशतानि अधिकानि क्यामेरायन्त्राणि आवश्यकानि भवन्ति। क्यामेराणां सीमितोपलब्धेः कारणात् एकस्मिन् खण्डे कार्यसमाप्तेः अनन्तरमेव अन्यस्मिन् खण्डे गणना आरभ्यते। अस्य ब्लॉकस्य गणना पूर्णीकर्तुं द्वौ मासौ अधिककालः अपेक्षितः इति अनुमानः अस्ति।

बांके–बर्दिया ब्लॉकः पञ्चसु खण्डेषु विभक्तः अस्ति। बर्दिया तथा बांके प्रदेशयोः द्वौ द्वौ खण्डौ, दाङ् प्रदेशे च एकः खण्डः निर्मितः अस्ति। प्रायः अष्टशतानि ग्रिड्-रचनाः पञ्चसु खण्डेषु विभज्य बर्दियाखण्डात् गणना आरभ्यते। राष्ट्रियप्रकृतिसंरक्षणकोषस्य (एनटीएनसी) बर्दियाप्रमुखः अजिततुम्बाहाम्फे इत्यस्य अनुसारं अस्य ब्लॉकस्य कृते प्रायः पञ्चशतानि स्वचालितक्यामेरायन्त्राणि आवश्यकानि, येषु अद्यावधि त्रिशताधिकानि क्यामेराः उपलब्धाः सन्ति। बर्दियायां पञ्चदिनानन्तरं गणना आरभ्यते।

शुक्लाफांटा–लालझाड़ी कोरिडोरक्षेत्रं एकमेव ब्लॉकं मत्वा गणना क्रियते। अत्र द्विशतं षष्टि ग्रिड्-रचनाः सन्ति। चितवन–पर्सा ब्लॉकस्य गणना समाप्तेः अनन्तरं तथा क्यामेरोपलब्धेः पश्चात् शुक्लाफांटायां कार्यं आरभ्यते। एकस्मिन् स्थाने क्यामेराः पञ्चदश रात्रयः यावत् स्थाप्यन्ते। क्यामेरास्थापनं तथा निष्कासनं च प्रायः एकसप्ताहकालं गृह्णाति, अतः एकस्य ब्लॉकस्य गणना पूर्णीकर्तुं न्यूनातिन्यूनं द्वाविंशतिदिनाः आवश्यकाः भवन्ति।

यदि सर्वेषु क्षेत्रेषु एकस्मिन् काले गणना क्रियेत, तर्हि अधिका जनशक्तिः क्यामेरायन्त्राणि च आवश्यकानि स्युः। अतः लघुलघुखण्डान् निर्माय चरणबद्धपद्धत्या गणना क्रियते। एनटीएनसी सदस्यसचिवः डॉ. नरेशसुवेदीः अवदत् यत् द्विसहस्रद्वाविंशतितमे वर्षे अष्टादशशतचतुःत्रिंशत् क्यामेरायन्त्राणि उपयुज्यन्ते स्म, अधुना तु द्विसहस्रत्रिशतं क्यामेराः स्थाप्यन्ते। पौषमासात् आरभ्य चैत्रमासपर्यन्तं गणना चलिष्यति।

एवमेव अस्मिन्नेव काले महाकालीतः कोशीपर्यन्तं व्याघ्राणाम् अक्यूपेन्सी सर्वेक्षणं अपि क्रियते, यत्र व्याघ्रदर्शनं, तेषां आगमनक्षेत्राणि, मलम्, मूत्रम्, पदचिह्नानि तथा अन्ये संकेताः आधारीकृत्य सर्वेक्षणं भविष्यति। राष्ट्रियोद्यान तथा वन्यजीवसंरक्षणविभागस्य समन्वयेन राष्ट्रियप्रकृतिसंरक्षणकोषः, डब्ल्यूडब्ल्यूएफ, जेडएसएल इत्यादयः विविधसंस्थाः सहयोगं करिष्यन्ति। देशस्य सर्वतः प्रायः द्विशतं पञ्चाशत् प्रशिक्षितकर्मिणः अस्मिन् कार्ये नियुक्ताः भविष्यन्ति। आवश्यकतानुसारं नागरिकवैज्ञानिकाः, स्थानीयनिवासिनः, विद्यार्थीणः तथा विभागीयवनकार्यालयकर्मचारिणः अपि समावेशिताः भविष्यन्ति।

वनप्रदेशस्य समीपे सुरक्षितस्थानेषु तम्बूनि स्थापयित्वा क्यामेरास्थितेः निरीक्षणं, मेमोरीकार्डसङ्ग्रहणं तथा प्रतिवेदनव्यवस्था च कृता अस्ति। क्यामेराः तिथिं, समयं, स्थानं च सह चित्राणि गृह्णन्ति, येन आँकडानां विश्लेषणं सुलभं भवति। रात्रौ क्यामेराः स्वयमेव फ्लैशप्रकाशं प्रज्वाल्य छायाचित्राणि गृह्णन्ति।

---------------

हिन्दुस्थान समाचार