एकता, दृढता तथा राष्ट्रनिर्माणस्य प्रतीकः आसीत् सरदारपटेलः — मुख्यमंत्री धामी।
देहरादूनम्, 15 दिसंबरमासः (हि.स.)। मुख्यमंत्री पुष्कर–सिंह–धामी भारत–रत्न–सम्मानितस्य लौहपुरुषस्य सरदार–वल्लभभाई–पटेलस्य पुण्यतिथौ तस्मै नमनं कृत्वा अवदत् यत् तेन सेवाभावेन वर्तमानभारतस्य इबारत लिखिता। सः एकतायाः दृढतायाः राष्ट्रनिर्माणस्य च प्रतीक
मुख्यमंत्री पुष्कर सिंह धामी सरदार पटेल के चित्र पर पुष्प अर्पित करते।


देहरादूनम्, 15 दिसंबरमासः (हि.स.)। मुख्यमंत्री पुष्कर–सिंह–धामी भारत–रत्न–सम्मानितस्य लौहपुरुषस्य सरदार–वल्लभभाई–पटेलस्य पुण्यतिथौ तस्मै नमनं कृत्वा अवदत् यत् तेन सेवाभावेन वर्तमानभारतस्य इबारत लिखिता। सः एकतायाः दृढतायाः राष्ट्रनिर्माणस्य च प्रतीकः आसीत्। राष्ट्रहिते तस्य अटलः सङ्कल्पः, अनुशासनं कर्तव्यनिष्ठा च अस्माकं सर्वेषां कृते प्रेरणास्रोतः अस्ति।

सोमवासरे मुख्यमंत्री धामी स्वावासे अखण्डभारतस्य शिल्पकारस्य, महान् स्वातन्त्र्यसेनानिनः सरदार–वल्लभभाई–पटेलस्य पुण्यतिथ्यवसरे तस्य चित्रे पुष्पाञ्जलिं समर्प्य भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्। अस्मिन् अवसरॆ मुख्यमंत्रीः अवदत् यत् सरदार–पटेलः स्वस्य दूरदर्शिना नेतृत्वेन, राष्ट्रनिष्ठया चिन्तनया, अदम्येन साहसेन च देशस्य अनेकरियासतानां एकीकरणं कृत्वा अखण्डस्य सशक्तस्य च भारतस्य दृढां आधारशिलां स्थापितवान्। देशस्य एकतायाः अखण्डतायाः समरसतायाश्च कृते सरदार–पटेलस्य योगदानं सदैव अविस्मरणीयं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता