Enter your Email Address to subscribe to our newsletters

वाराणसी, 15 दिसंबरमासः (हि.स. )।उत्तरप्रदेशस्य वाराणसीनगरे प्रवर्तमानस्य काशी–तमिलसङ्गमस्य चतुर्थसंस्करणे भागं ग्रहीतुं तमिलनाडुतः आगतः आध्यात्मिकदलः सोमवासरे हनुमानघाटं प्राप्तवान्। तत्र सर्वे पवित्रायां गङ्गानद्यां स्नानं कृत्वा वैदिकमन्त्रघोषैः सह मातरं गङ्गां पूजितवन्तः।
गङ्गास्नानानन्तरं समूहः घाटस्थितेषु प्राचीनमन्दिरेषु दर्शनपूजनं कृतवान्। मार्गदर्शकेन सर्वेभ्यः मन्दिराणां इतिहासस्य विषये विस्तरेण विवरणं प्रदत्तम्।
ततः परं सर्वे तमिलप्रतिनिधयः हनुमानघाटस्थितं तमिलमहाकवेः सुब्रमण्यम्भारतीस्य गृहं गतवन्तः। तत्र तस्य परिवारस्य तृतीयपीढ्याः सदस्यैः सह दलस्य साक्षात्कारः अभवत्। समूहस्य जनानां मध्ये तमिलमहाकवेः विषये अधिकं ज्ञातुं महान् उत्सुकभावः दृष्टः। तैः सुब्रमण्यम्भारतीगृहस्य समीपे स्थितस्य पुस्तकालयस्य अपि भ्रमणं कृत्वा तत्रत्यविषयेषु बहु ज्ञातम्।
सुब्रमण्यम्भारतीगृहे भ्रमणानन्तरं एषः समूहः काञ्चीमठं प्राप्तवान्, तत्र च तस्य इतिहासस्य विषये जानकारीं लब्धवान्। अस्मिन् अवसरे हनुमानघाटक्षेत्रे स्थितं दक्षिणभारतीयमन्दिरं दृष्ट्वा दलः अत्यन्तं हर्षितः अभवत्।
अयं आध्यात्मिकदलः स्वस्वरीत्या काशीनगरस्य व्याख्यां कुर्वन् आसीत्। कश्चन स्वपूर्वजान् स्मरन् आसीत्, कश्चन च संस्कृत्या एकत्वं प्रतिपादयन् “एकभारत श्रेष्ठभारत” इति परिकल्पनां साकारयन् आसीत्। समूहस्य सदस्यः वी.के. रमणः अवदत् यत् वयं मन्दिराणां भ्रमणं कृतवन्तः। काशी–तमिलनाडयोः महान् साम्यं दृष्ट्वा वयं विस्मिताः अभवाम। अत्रत्यसंस्कृतिः अस्माकं संस्कृतिः च एका एव अस्ति। एतादृशानि आयोजनानि निरन्तरं भवितव्यानि, येन प्रधानमन्त्रिणः नरेन्द्रमोदिना कल्पितं “एकभारत श्रेष्ठभारत” स्वप्नं साकारीकर्तुं शक्येत।
हिन्दुस्थान समाचार