Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 15 दिसंबरमासः (हि.स.)।उपराष्ट्रपतिः सीपी राधाकृष्णनः सोमवासरे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य पञ्चसप्ततितम्यां पुण्यतिथौ उपराष्ट्रपतिनिवासे तस्य चित्रे पुष्पाञ्जलिं समर्पितवान्।
राधाकृष्णनः सामाजिकमाध्यममञ्चे “एक्स” इत्यत्र उक्तवान् यत् सरदारपटेलः राष्ट्रस्य एकीकरणे महत्त्वपूर्णं योगदानं कृतवान्। तेषु योगदानेषु रियासतां एकीकरणं तथा अखिलभारतीयसेवानां आधारस्य स्थापना च अन्तर्भवतः। एतेन प्रशासनिकसंरचनायाः दृढीकरणं अभवत्।
सः अवदत् यत् सरदारपटेलस्य स्थायिनी विरासत् “एकभारत श्रेष्ठभारत” इति भावनां निरन्तरं प्रेरयति तथा विकसितभारतस्य दिशि देशस्य यात्रायां मार्गदर्शनं करोति।
------------------
हिन्दुस्थान समाचार