Enter your Email Address to subscribe to our newsletters

गतमासे चतुर्विंशतितमे नवम्बरदिने दिग्गजः अभिनेता धर्मेन्द्रः एकोननवतितमे वर्षे निधनं गतः। तस्य निधनात् चलचित्रजगतः गहनं आघातं अनुभूतवान्। परिवारजनाः प्रशंसकाः च अद्यापि अस्मात् शोकात् पूर्णतया न मुक्ताः सन्ति। अस्मिन्नन्तरे वार्ता अस्ति यत् तस्य अत्यन्तं लोकप्रियं चलचित्रं “यमला पगला दीवाना” पुनः एकवारं चलचित्रगृहेषु प्रदर्शयितुं योजना क्रियते। सनी देओलः बॉबी देओलः च अभिनीतस्य अस्य चलचित्रस्य पुनः प्रदर्शनद्वारा दिवंगतस्य अभिनेतुः श्रद्धाञ्जलिः समर्पयितुं चिन्त्यते।
प्रतिवेदनानुसारं चलचित्रसम्बद्धः एकः स्रोतः अवदत् यत् “यमला पगला दीवाना” इत्यस्य पुनः प्रदर्शनं तस्य कलाकारस्य प्रति सम्मानस्य प्रतीकं भविष्यति, येन चलचित्रक्षेत्रे अमिटां छापां निहितां कृतवती। स्रोतः अपि उक्तवान् यत् चलचित्रं नातिपुरातनं अस्ति, तस्य लघुहास्यप्रधानस्वभावः पारिवारिकमनोरञ्जनं च अद्यापि दर्शकान् आकर्षयितुं समर्थः अस्ति। पूर्वं अस्य पुनः प्रदर्शनस्य तिथिः एकोनविंशतितमे दिसम्बरदिने निश्चिताभवत्।
स्रोतः अग्रे अवदत् यत् “धुरन्धर” इति चलचित्रस्य लोकप्रियतां दृष्ट्वा प्रदर्शनतिथौ परिवर्तनः कृतः। चलचित्राधिकारधारकाः एनएच स्टूडियोज् नामकाः संस्थाः अधुना एतत् चलचित्रं द्विसहस्र षड्विंशतितमे वर्षे जनवरीमासस्य प्रथमदिने चलचित्रगृहेषु अवतारयितुं विचारयन्ति। तथापि अन्तिमनिर्णयः आगामिषु दिनेṣu एव भविष्यति।
समीरकर्णिकेन निर्देशिते “यमला पगला दीवाना” इति चलच्चित्रे धर्मेन्द्रः तस्य उभौ पुत्रौ च एकत्र त्रयीस्वरूपेण दर्शकानां विशेषं प्रेम प्राप्नुवन्। द्विसहस्र त्रयोदशतमे वर्षे प्रदर्शितस्य अस्य चलचित्रस्य अपारसफलतायाः अनन्तरं द्विसहस्र अष्टादशतमे वर्षे तस्य द्वितीयः भागः अपि प्रदर्शितः। अधुना अस्य पुनः प्रदर्शनं धर्मेन्द्रस्य सिनेमायात्रां स्मरणीयां कर्तुं एकं भावनात्मकं अवसरं मन्यते।
---------------
हिन्दुस्थान समाचार