भारतं हिन्दू राष्ट्रं घोषितं कर्तुम् आग्रहम्आधृत्य पदयात्रां निष्काषयति कवि सिंहः
हरिद्वारम्, 15 दिसंबरमासः (हि.स.)।भारतं हिन्दूराष्ट्रं घोषितं कर्तुं मागणां कृत्वा गायिका–कवयित्री कविसिंह पदयात्रां करिष्यति। एषा पदयात्रा १६ दिसम्बरतिथौ हरिद्वारनगरे हरकीपैडीस्थानात् आरभ्य १० जनवरी २०२६ तमे वर्षे मथुरायां श्रीकृष्णजन्मभूमिं प्राप
पत्रकारों से वार्ता करते हुए कवि सिंह


हरिद्वारम्, 15 दिसंबरमासः (हि.स.)।भारतं हिन्दूराष्ट्रं घोषितं कर्तुं मागणां कृत्वा गायिका–कवयित्री कविसिंह पदयात्रां करिष्यति। एषा पदयात्रा १६ दिसम्बरतिथौ हरिद्वारनगरे हरकीपैडीस्थानात् आरभ्य १० जनवरी २०२६ तमे वर्षे मथुरायां श्रीकृष्णजन्मभूमिं प्राप्य समाप्ता भविष्यति। अस्याः पदयात्रायाः समर्थनं श्रीअखण्डपरशुरामअखाडस्य अध्यक्षः पण्डितः अधीरकौशिकः कृतवान्।

पदयात्राविषये सोमवासरे प्रेसक्लबे पत्रकारैः सह वार्तालापे कविसिंह अवदत् यत् एषा तस्याः द्वितीया पदयात्रा अस्ति। यावत् भारतं हिन्दूराष्ट्रं घोषितं न भविष्यति, तावत् तस्याः प्रयासः निरन्तरं प्रवर्तिष्यते। गायिका कविसिंह अवदत् यत् हिन्दूराष्ट्रघोषणायाः अतिरिक्तं तस्याः भारतसरकारेभ्यः केचन अन्येऽपि मागणाः सन्ति। तासु श्रीकृष्णजन्मभूमौ भव्यस्य मन्दिरस्य निर्माणम्, गौमातरं राष्ट्रमातरं घोषितं कर्तुम्, हिन्दीभाषां राष्ट्रभाषां घोषितं कर्तुम्, भारतस्य सर्वेषु विद्यालयेषु विश्वविद्यालयेषु च वेदग्रन्थानां शिक्षणम्, भारतस्य सर्वेषु हिन्दूतीर्थस्थलेषु केवलं हिन्दुभ्य एव दुकानस्थापनस्य अनुज्ञा, तथा सर्वेषु तीर्थस्थलेषु मांस–मद्यवर्जनम् इत्येताः प्रमुखाः सन्ति।

सा अवदत् यत् मथुरायां श्रीकृष्णजन्मभूमिं प्राप्य श्रीकृष्णाय गङ्गाजलसमर्पणेन अस्याः यात्रायाः समापनं करिष्यते। एषा यात्रा प्रायः पञ्चविंशतिदिनेषु सम्पूर्णा भविष्यति। पदयात्राकाले सा अन्नग्रहणं न करिष्यति, उपवासे एव स्थास्यति।

अवगतं कृतं यत् एषा पदयात्रा हरिद्वारात् प्रस्थानं कृत्वा बहादराबादे प्रथमं विश्रामस्थानं करिष्यति। ततः मुजफ्फरनगरं, मेरठं, बुलन्दशहरं, अलीगढं, हाथरसः, वृन्दावनं च अतिक्रम्य अन्ततः मथुरायां श्रीकृष्णजन्मभूमिं प्राप्य १० जनवरी २०२६ तमे दिने समाप्ता भविष्यति।

अस्यां पत्रकारवार्तायां पण्डितः अधीरकौशिकः, कथावाचकः पवनकृष्णशास्त्री इत्यादयः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार