Enter your Email Address to subscribe to our newsletters

पटना, 15 दिसंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य राष्ट्रिय–कार्यकारी–अध्यक्षपदे नियुक्तेः अनन्तरं नितिन–नवीनः सोमवासरस्य प्रातःकाले प्रसिद्धं महावीर–मन्दिरं गत्वा विधिवत् पूजा–अर्चनां कृतवान्। सः भगवान् महावीरं संगठनस्य देशहितस्य च कार्यकरणाय शक्तिं मार्गदर्शनं च दातुम् कामनाम् अकरोत्।
तदनन्तरं नितिन–नवीनः स्वस्य दिवंगतस्य पितुः तथा वरिष्ठ–भाजपा–नेतुः नवीन–किशोर–प्रसाद–सिन्हायाः प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धापूर्वकं नमनं कृतवान्। अस्मिन् अवसरॆ भावुकाः क्षणाः दृष्टाः। अस्मिन् समये बहुसंख्यायां भाजपाकार्यकर्तारः समर्थकाः च उपस्थिताः आसन्। कार्यकर्तारः “नवीन–किशोर–प्रसाद–सिन्हा अमराः सन्तु” तथा “नितिन–नवीन–जिन्दाबाद्” इति घोषवाक्यानि उच्चार्य स्वस्य उत्साहं समर्थनं च प्रदर्शितवन्तः। तदनन्तरं नितिन–नवीनः दिल्ली–नगरं प्रति प्रस्थानं करिष्यति, यत्र सः पक्षस्य वरिष्ठ–नेतृभिः सह आगामी–सङ्गठनात्मक–क्रियाकलापानां विषये विचार–विमर्शं करिष्यति।
भाजपा–कार्यकर्तृषु नितिन–नवीनाय प्रदत्तायाः नूतनायाः दायित्वस्य विषये विशेषः उत्साहः दृश्यते, एतत् च संगठनस्य कृते एकं महत्त्वपूर्णं पदक्षेपः इति रूपेण परिगण्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता