मुख्यमंत्री योगी प्राप्नोत् अयोध्यां, पूर्व सांसदाय डॉ. रामविलास दास वेदांतिने अददात् श्रद्धांजलिम्
अयोध्या, 16 दिसंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः मङ्गलवासरे रामनगरीं प्राप्य पूर्वसांसदः डा. रामविलासदासः वेदान्ती महाराजस्य पार्थिवशरीरे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं दत्तवान्। वेदान्ती महाराजस्य अद्यैव सरयूतीरे अन्त्येष्टिसंस्कारः
मुख्य मंत्री


मुख्यमंत्री अयोध्या


अयोध्या, 16 दिसंबरमासः (हि.स.)।

मुख्यमंत्री योगी आदित्यनाथः मङ्गलवासरे रामनगरीं प्राप्य पूर्वसांसदः डा. रामविलासदासः वेदान्ती महाराजस्य पार्थिवशरीरे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं दत्तवान्। वेदान्ती महाराजस्य अद्यैव सरयूतीरे अन्त्येष्टिसंस्कारः करिष्यते।

मध्यप्रदेशस्य रीवाजनपदे रविवासरे रामकथावाचनकाले डा. रामविलासदासः वेदान्ती महाराजस्य स्वास्थ्यं सहसा अवनतं जातम्। ततः सः एकस्मिन् निजचिकित्सालये नीतः, किन्तु तत्रैव तस्य प्राणाः निरुद्धाः। रात्रौ विलम्बेन वेदान्ती महाराजस्य पार्थिवशरीरं तस्य निवासस्थानं हिन्दूधाम इति स्थलं नीतम्। हिन्दूधामे एव जनानां दर्शनार्थं तस्य पार्थिवशरीरं स्थापितम्। प्रभातकालात् एव अन्तिमदर्शनार्थं श्रद्धाञ्जलिदानार्थं च जनानां महान् समागमः अभवत्।

मुख्यमन्त्री योगी आदित्यनाथः अपि अयोध्यां आगत्य वेदान्ती महाराजस्य अन्तिमदर्शनं कृत्वा तस्य पार्थिवशरीरे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं समर्पितवान्।

सूचनानुसारं अन्त्येष्टिसंस्कारात् पूर्वं वेदान्ती महाराजस्य पार्थिवशरीरस्य नगरभ्रमणं कारयिष्यते। तदनन्तरं हनुमानगढीं रामजन्मभूमिं च अतिक्रम्य सरयूतीरे तस्य अन्त्येष्टिसंस्कारः विधास्यते।

हिन्दुस्थान समाचार