मुख्यमंत्री ऊर्जा विभागस्य अन्तर्गताः नवचयनिताः 2390 अभ्यर्थिभ्यः प्रदत्तानि नियुक्तिपत्राणि
पटना, 16 दिसंबरमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः विद्युतभवने आयोजिते कार्यक्रमे ऊर्जाविभागस्य अन्तर्गतं बिहार स्टेट पावर (होल्डिंग) कम्पनी लिमिटेड् तथा तस्य अनुषङ्गिककम्पनीषु नवचयनितान् २३९० अभ्यर्थीन् नियुक्तिपत्राणि प्रदत्तवान्। अस्मिन् १८१
मुख्यमंत्री ऊर्जा विभाग के नवनियुक्त अभ्यर्थियों को नियुक्ति पत्र देते हुए


पटना, 16 दिसंबरमासः (हि.स.)।

मुख्यमन्त्री नीतीशकुमारः विद्युतभवने आयोजिते कार्यक्रमे ऊर्जाविभागस्य अन्तर्गतं बिहार स्टेट पावर (होल्डिंग) कम्पनी लिमिटेड् तथा तस्य अनुषङ्गिककम्पनीषु नवचयनितान् २३९० अभ्यर्थीन् नियुक्तिपत्राणि प्रदत्तवान्। अस्मिन् १८१० तकनीशियनाः ५१२ पत्राचारलिपिकाः तथा ६८ भाण्डारसहायककर्मचारिणः अन्तर्भवन्ति। मुख्यमन्त्री सांकेतिकरूपेण त्रिभ्यः अभ्यर्थिभ्यः श्री सन्नीसाकेताय आशुतोषकुमाराय मोहितकुमारभट्टाय च नियुक्तिपत्राणि प्रदत्तवान्।

कार्यक्रमकाले मुख्यमन्त्री अवदत् यत् सः सर्वेभ्यः अपेक्षते यत् ते परिश्रमेण निष्ठया च कार्यं करिष्यन्ति तथा बिहारराज्यं अधिकं प्रगतिपथे अग्रे नयिष्यन्ति। सः अवदत् यत् आरम्भात् एव शासनस्य प्रयासेन युवाभ्यः सरकारीनियुक्तयः रोजगाराश्च उपलब्धाः क्रियन्ते। वर्ष २००५ तः २०२० पर्यन्तं अष्टलक्षाधिकानां युवानां कृते सरकारीनियुक्तयः प्रदत्ताः। वर्ष २०२० मध्ये सप्तनिश्चय २ अन्तर्गतं दशलक्षनियुक्तयः दशलक्षरोजगाराश्च प्रदातव्याः इति निश्चयं कृतम्। तस्य अन्तर्गतं दशलक्षनियुक्तयः चत्वारिंशलक्षरोजगाराश्च अर्थात् पञ्चाशल्लक्षपरिमितं नियुक्तिरोजगारं च उपलब्धं कृतम्। अधुना शासनं निश्चयं कृतवान् यत् आगामिषु पञ्चसु वर्षेषु तस्य द्विगुणं अर्थात् एककोटिनियुक्तिरोजगारं च उपलब्धं करिष्यति। अस्मिन् विषये शासनं शीघ्रतया कार्यं करोति।

कार्यक्रमकाले मुख्यमन्त्रिणः साक्षात् राज्ये पम्प्ड स्टोरेज प्रोजेक्ट् स्थापने हेतोः एकरारनामे हस्ताक्षराणि कृतानि। राज्ये ऊर्जासुरक्षां सुदृढीकर्तुं नवीकरणीयऊर्जायाः प्रवर्धनाय च बिहारशासनद्वारा पम्प्ड स्टोरेज नीति २०२५ प्रवर्तिता अस्ति। अस्याः नीत्याः आधारेण बिहार स्टेट पावर जेनेरेशन कम्पनी लिमिटेड् द्वारा मेसर्स ग्रीनको तथा मेसर्स सन पेट्रो इति द्वे एजेन्सी चयनिते। एते उभे परियोजने नवादामण्डलस्य पर्वतीयप्रदेशेषु प्रस्ताविते स्तः। एताभ्यां परियोजनाभ्यां राज्ये त्रयोदशसहस्रकोटिरूप्यकाणां निवेशः भविष्यति।

नियुक्तिपत्रवितरणकार्यक्रमात् पूर्वं मुख्यमन्त्री विद्युतभवने स्थितं स्टेट लोड डिस्पैच सेन्टर निरीक्षितवान् तथा तत्र स्थितव्यवस्थायाः विषये जानकारीं प्राप्तवान्। बिहारराज्ये सर्वेषां श्रेणीनां विद्युतोपभोक्तॄणां कृते निरन्तरां गुणवत्तापूर्णां च विद्युत्प्रदायं सुनिश्चितं कर्तुं राज्ये राज्यस्य बहिश्च कार्यरतैः विद्युतउत्पादनकेन्द्रैः संचरणकम्पनीभिः वितरणकम्पनीभिश्च समन्वयस्थापनार्थं स्टेट लोड डिस्पैच सेन्टर स्थापिता अस्ति। विद्युतभवने पट्टनानगरे चतुर्थतले स्थितं एतत् केन्द्रं राज्यस्य विद्युतव्यवस्थां सुचारूरूपेण सञ्चालयितुं अहोरात्रं निरन्तरं कार्यं करोति।

हिन्दुस्थान समाचार