Enter your Email Address to subscribe to our newsletters

बेलगामः, 16 दिसंबरमासः (हि.स.)।कर्नाटकराज्यस्य विधानसभासत्रकाले मुख्यमन्त्री सिद्धारमैयः पुनः अवदत् यत् यावद् दलस्य उच्चकमाण्डः इच्छति, तावद् अहं मुख्यमन्त्रिपदे स्थितः भविष्यामि। मुख्यमन्त्री सिद्धारमैयः सोमवासरे विधानसभायां विपक्षनेतुः प्रश्नस्य उत्तरं ददाति स्म।
चर्चाकाले विपक्षनेता आर् अशोकः प्रश्नं कृतवान् यत् किम् सः पञ्चवर्षपर्यन्तं मुख्यमन्त्री भविष्यति। अस्य उत्तरं दत्त्वा सिद्धारमैयः स्पष्टं अवदत् यत् यावत् तस्मै उच्चकमाण्डात् निर्देशः न प्राप्यते, तावत् सः मुख्यमन्त्री भविष्यति। विपक्षनेतुः अशोकस्य वक्तव्यस्य प्रत्युत्तरं दत्त्वा मुख्यमन्त्री अवदत् यत् अस्माकं पक्षे १४० विधायकाः सन्ति। वयं २०२८ तमे वर्षे अपि सत्तायां आगमिष्यामः। जनता भाजपा दलाय आशीर्वादं न दास्यति। आलोचनां कुर्वन् सः अवदत् यत् यूयं ‘ऑपरेशन् कमल’ इत्यस्य माध्यमेन पश्चाद्द्वारेण सत्तायां आगताः अस्थ। एषा अस्माकं सरकार अस्ति, तथा उच्चकमाण्डस्य निर्देशपर्यन्तं अहं मुख्यमन्त्री भविष्यामि।
विधानसभायां कुनिगलनिर्वाचनक्षेत्रस्य कांग्रेसविधायकः रंगनाथः कृषिसहकारीसमितिषु अंशवितरणे भेदभावस्य आरोपं कृतवान्। अस्य विषये मुख्यमन्त्री अवदत्— “यदि भेदभावः अस्ति, तर्हि वयं तं निवारयिष्यामः, अस्मासु विश्वासं कुर्वन्तु।” अस्मिन् अवसरः अशोकः हस्तक्षेपं कृत्वा मुख्यमन्त्रिणः बलाद्भेदभावं कृतवन्तम् इति आरोपं कृतवान्। अस्य प्रत्युत्तरे मुख्यमन्त्री अवदत्— “अग्नौ घृतं मा क्षिपत।” एतेषां शब्दानन्तरं सदने प्रशासनपक्षस्य विपक्षपक्षस्य च मध्ये तीव्रः वादविवादः उत्पन्नः।
---------------
हिन्दुस्थान समाचार