स्थगनप्रस्तावे विषये लोकसभाध्यक्षस्य सदस्येभ्यः उपदेशः
नवदेहली, १६ दिसम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला मङ्गलवासरे सदस्यैः प्रतिदिनं स्वस्वविषयेषु स्थगनप्रस्तावानां प्रस्तुतीकरणे आपत्तिं प्रकटितवान्। अध्यक्षः अवदत् यत् स्थगनप्रस्तावः केवलं तात्कालिकेषु अत्यन्तगम्भीरविषयेषु एव दातव्यः भवति। लोकसभ
Om Birla


नवदेहली, १६ दिसम्बरमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला मङ्गलवासरे सदस्यैः प्रतिदिनं स्वस्वविषयेषु स्थगनप्रस्तावानां प्रस्तुतीकरणे आपत्तिं प्रकटितवान्। अध्यक्षः अवदत् यत् स्थगनप्रस्तावः केवलं तात्कालिकेषु अत्यन्तगम्भीरविषयेषु एव दातव्यः भवति।

लोकसभायां प्रश्नकालानन्तरं अध्यक्षः विविधसदस्यानां नामानि निर्दिश्य अवदत् एते स्थगनप्रस्तावान् दत्तवन्तः, तान् सः अस्वीकरोति। सहैव तेन टिप्पणी कृता यत् केचन सदस्याः प्रतिदिनं स्वस्य स्थगनप्रस्तावं ददति, येन तेषां नामानि तेन गृहीतानि भवेयुः। स्थगन-प्रस्तावः केवलं तात्कालिकेषु च अत्यन्तमहत्त्वपूर्णेषु विषयेषु एव भवति। यदि सदस्याः एवं करिष्यन्ति, तर्हि सः तेषां नामानि न ग्रहीष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता