मगधे कमलं विकसितं, अधुना अवधेऽपि विकसिष्यति : केशवप्रसादमौर्यः
लखनऊ,16 दिसंबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः समाजवादीपक्षं (सपा) पीडीए (पृष्ठवर्तिदलितअल्पसंख्यकम्इति विषये तीव्रतया आलोचितवान्। उपमुख्यमन्त्रीः मङ्गलवासरे स्वस्य सामाजिकमाध्यमखाते
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ,16 दिसंबरमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः समाजवादीपक्षं (सपा) पीडीए (पृष्ठवर्तिदलितअल्पसंख्यकम्इति विषये तीव्रतया आलोचितवान्।

उपमुख्यमन्त्रीः मङ्गलवासरे स्वस्य सामाजिकमाध्यमखाते “एक्स” इत्यत्र अलिखत् यत् “सपाध्यक्षस्य अखिलेशयादवस्य तथाकथितं पीडीए न भूमौ दृश्यते, न च जनमानसे। कार्यकर्तॄणां नाम्ना सपा समीपे तदेव पुरातनं गुन्डमाफियाअपराधिनां समूहः अस्ति, यं जनताः पुनः पुनः पूर्णतया निराकृतवती अस्ति।”

केशवप्रसादमौर्यः अपि अवदत् यत् मगधदेशे कमलं विकसितं जातम्, अधुना अवधदेशेऽपि कमलं विकसिष्यति, तथा २०२७ तमे वर्षे एतत् अधिकं प्रचण्डं भविष्यति। पञ्चरयुक्तया सायकलेन सह सपायाः सैफईनगरं प्रति प्रत्यावर्तनं निश्चितं भवति।-------------

हिन्दुस्थान समाचार