Enter your Email Address to subscribe to our newsletters

बर्लिनम्, १६ दिसम्बरमासः (हि.स.)। जर्मनीदेशस्य चांसलरः फ्रेडरिक् मर्जः तथा यूक्रेनदेशस्य राष्ट्रपतिः वोलोदिमीर् ज़ेलेंस्की बर्लिननगरे संयुक्तां पत्रकारपरिषदं कृत्वा यूक्रेनयुद्धसम्बद्धां उदयमानां कूटनीतिक प्रयत्नं तथा सम्भाव्यां शान्तिप्रक्रियां विषये स्वस्व-स्थितिं स्पष्टं कृतवन्तौ।
चांसलरः मर्जः वार्तां “उत्पादकां” इति वर्णयन् अवदत् यत् यूक्रेनयुद्धस्य समाप्तेः दिशायां उल्लेखनीया राजनयिकगतिः दृश्यते। तस्य कथनानुसारं, यद्यपि संवादः अद्यापि आरम्भिकावस्थायां अस्ति, तथापि प्रथमवारम् एतत् प्रतीतं भवति यत् संघर्षविरामस्य वास्तविकः सम्भावः निर्मीयते।
मर्जः अस्य नूतनस्य वातावरणस्य श्रेयः अमेरिकादेशस्य राष्ट्रपतये डोनाल्ड् ट्रम्पाय अर्पयन् अवदत् यत् तस्य निरन्तरप्रयत्नैः तथा सक्रियभूमिकया विना एषा कूटनीतिकप्रगतिर्न सम्भवा अभविष्यत्। सः अपि अवदत् यत् रूसदेशः अद्यापि कठोराभिः अधिकतमयाचनाभिः कालं विलम्बयितुं प्रयतते, परन्तु यूरोपीयदेशाः वार्तां अग्रे नेतुं दृढसंकल्पाः सन्ति।
चांसलरः अमेरिकादेशेन प्रस्ताविताः यूक्रेनाय “विधिभौतिकसुरक्षाश्वासनाः” विशेषरूपेण प्रशंसितवान्, तान् च शान्तिप्रक्रियायै अत्यन्तं महत्त्वपूर्णान् इति अवदत्। क्षेत्रीयविषयेषु मर्जः स्पष्टं अवदत् यत् स्वप्रदेशस्य रक्षणं कुर्वन्तः यूक्रेनीनागरिकाः एव कस्मिन्नपि सम्भाव्ये परिवर्तने निर्णयं कर्तुं अधिकारिणः सन्ति।
राष्ट्रपतिः ज़ेलेंस्की अवदत् यत् यूक्रेनः इच्छति यत् तस्य राष्ट्रीयहितानां सम्मानः भवेत्, तथा च तस्मै विश्वासः अस्ति यत् सहयोगीदेशाः तस्य वचनं शृण्वन्ति। सः पुनः उक्तवान् यत् कस्मिन्नपि शान्तिसन्धेः दृढाः प्रभाविण्यश्च सुरक्षाप्रत्याभूतयः अनिवार्याः सन्ति। यावत् एतासु प्रत्याभूतिषु स्पष्टता न भविष्यति, तावत् सीमाः तथा क्षेत्रसम्बद्धाः निर्णयाः सम्भवाः न सन्ति। ज़ेलेंस्की अङ्गीकृतवान् यत् क्षेत्रीयविषयाः यूक्रेनाय अत्यन्तं पीडादायकाः सन्ति।
अस्मिन् अवसरे यूरोपीयसंघे जडीकृतानां रूसीसम्पत्तीनां उपयोगविषये प्रश्ने मर्जः सङ्केतं कृतवान् यत् विद्यमानः प्रस्तावः एव सः विकल्पः अस्ति यः यूरोपीयसंघस्य मतदाननियमैः पारितुं शक्यते। सः सचेतनां दत्तवान् यत् यदि अस्य सप्ताहस्य यूरोपीयपरिषद्समावेशे अस्मिन् विषये सहमतिर्न भविष्यति, तर्हि तेन यूरोपीयसंघस्य विश्वसनीयता तथा निर्णयक्षमता गम्भीररूपेण हानिं प्राप्स्यति।उभयोः नेतृणोः एषा संयुक्ता पत्रकारवार्ता यूक्रेनसंकटस्य विषये सम्भाव्यशान्तिप्रक्रियायाः दिशायां एकं महत्त्वपूर्णं कूटनीतिकसङ्केतम् इति दृष्ट्या अवलोक्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani