Enter your Email Address to subscribe to our newsletters



-'ग्रीन योर् स्कूल् कार्यक्रम’स्य अन्तर्गतं देशव्यापिषु ७२० विद्यालयेषु गुजरातस्य सर्वकारीयः प्राथमिकविद्यालयः प्रथमं स्थानं प्राप्तवान्।
गांधीनगरम्, 16 दिसंबरमासः (हि.स.)। गुजरातराज्यस्य गांधीनगरमण्डले स्थितस्य जीवराजना-मुवाडा-ग्रामस्य सर्वकारीयः प्राथमिकविद्यालयः ‘ग्रीन् योर् स्कूल् कार्यक्रम’स्य अन्तर्गतं राष्ट्रियस्तरीयं ‘ग्रीन् स्कूल् अवार्ड्–२०२५’ इति सम्मानं प्राप्तवान्।
गांधीनगरमण्डले जीवराजना-मुवाडा-ग्रामे स्थितः सः सर्वकारीयः प्राथमिकविद्यालयः पर्यावरणसंरक्षणेन सह शिक्षा-क्षेत्रे न केवलं मण्डलस्य, अपि तु समग्रस्य गुजरातराज्यस्य गौरवं वर्धितवान्। मुम्बई-नगरे इण्डियन-ग्रीन्-बिल्डिङ्-काउन्सिल् द्वारा राष्ट्रियस्तरे आयोजितस्य ‘ग्रीन् योर् स्कूल् कार्यक्रम’स्य अन्तर्गतं अस्मै विद्यालयाय एतत् ‘ग्रीन् स्कूल् अवार्ड्–२०२५’ प्रदत्तम्।
राज्यसूचनाविभागेन मङ्गलवासरे अवगतं कृतं यत्, अस्मिन् विद्यालये प्रायः १२०० अधिकाः वृक्षाः सन्ति। ग्रीन्-स्कूल् विषयक ११ नवीनविचाराणां तथा परियोजनानां क्रियान्वयनार्थं विद्यालयाय राष्ट्रियस्तरे त्रिलक्षरूप्यकाणां प्रोत्साहनपुरस्कारोऽपि प्रदत्तः।
केन्द्रसर्वकारस्य न्यु-एण्ड्-रिन्यूएबल्-एनर्जी-मिनिस्ट्री, मिनिस्ट्री-ऑफ्-हाउसिङ्-एण्ड्-अर्बन्-अफेयर्स्, वर्ल्ड्-ग्रीन्-बिल्डिङ्-काउन्सिल्, कॉन्फेडरेशन्-ऑफ्-इण्डियन्-इण्डस्ट्री तथा इण्डियन्-ग्रीन्-बिल्डिङ्-काउन्सिल् इत्येषां संयुक्तोपक्रमेण नवम्बर-२०२५ मध्ये मुम्बई-नगरे जियो-वर्ल्ड्-कन्वेन्शन्-सेण्टर् इत्यत्र ‘ग्रीन्-बिल्डिङ्-काङ्ग्रेस्’ आयोजितः। इण्डियन्-ग्रीन्-बिल्डिङ्-काउन्सिल् प्रतिवर्षं ‘ग्रीन् योर् स्कूल् कार्यक्रम’स्य अन्तर्गतं देशव्यापिभ्यः विद्यालयेभ्यः पञ्जीकरणं आमन्त्रयति। अस्मिन् वर्षे देशात् ७२० विद्यालयानि अस्मिन् कार्यक्रमे सहभागिनः आसन्, येषु प्रथमत्रयस्थाने गुजरातराज्यस्य, अरुणाचलप्रदेशस्य तथा पुडुचेरीप्रदेशस्य विद्यालयानां चयनं कृतम्।
अस्य कार्यक्रमस्य अन्तर्गतं २६ नवम्बर-२०२५ दिने मुम्बई-नगरे इण्डियन्-इन्स्टिट्यूशन् इत्यत्र गुजरातसहितं त्रयाणां विद्यालयानां जूरी-समक्षं प्रस्तुतीकरणं कृतम्। राज्यस्य समग्र-शिक्षाविभागस्य, विद्यालयस्य प्रधानाचार्यस्य बिपिन-गोस्वामी-महाशयस्य तथा अध्यापकानां मार्गदर्शनेन सिद्धीकृतानां ग्रीन्-स्कूल् विषयक ११ नवीनविचाराणां एवं विद्यालये प्रचलितानां परियोजनानां विषये देहगाम-तहसीलस्य जीवराजना-मुवाडा-प्राथमिकविद्यालयस्य छात्रैः— मीत-ठाकोरः, यामी-ठाकोरः, जिग्नेश-झाला इत्येभिः— जूरी-समक्षं प्रभावी प्रस्तुतीकरणं कृतम्।
अस्मिन् ग्रीन्-अवार्ड्-प्राप्त्यर्थं विद्यालयेन समर्पिताः ११ विचाराः आसन्, येषु— गृहनिर्मितं जीवामृतम्, पत्रपुनर्चक्रणम्, मूड्-पेन्टिङ्, मृद्भाण्ड-आधारितं गृहनिर्मितं वातानुकूलनतन्त्रम्, वहनयोग्यं जैवगैस-संयन्त्रम्, प्लास्टिक-मुक्त-विद्यालयः, स्मार्ट्-ऊर्जा-परीक्षणम्, ग्रे-वाटर्-तन्त्रम्, सौर-जल-पम्पः, ‘नेकी-की-दीवार’ इति संकल्पना, ‘रेड्-बुक्-डेटा’ इत्यादयः अन्तर्भवन्ति। एते विचाराः आगामिकाले क्रियान्विताः भविष्यन्ति।
तदतिरिक्तं विद्यालये ऊर्जा-व्यवस्थापनम्, जल-संरक्षणम् तथा अपशिष्ट-व्यवस्थापनम् इत्येतेषु विषयेषु निरन्तरं प्रयासाः क्रियमाणाः सन्ति। विद्यालये ‘प्लास्टिक-मुक्त-विद्यालयः, प्लास्टिक-मुक्त-ग्रामः’ इति अभियानमपि प्रवर्तते, यस्य अन्तर्गतं राज्यसर्वकारेण वर्षे २०२४ मध्ये ‘क्लाइमेट्-चेञ्ज्’ इति पुरस्कारोऽपि अस्मै विद्यालयाय प्रदत्तः। विद्यालये बालकैः चॉकलेट्-स्थाने लघुपादपः उपहाररूपेण दत्तः भवति, तथा ते यावत् विद्यालये अध्ययनं कुर्वन्ति, तावत् तस्य संरक्षणं अपि स्वयमेव कुर्वन्ति।
विद्यालये अपशिष्टवस्तुभ्यः निर्मिताः फाइटर्-विमानस्य, उपग्रहस्य, पवनचक्क्याः, पृथिवी-गोलकस्य (ग्लोब्), हाइड्रोपोनिक्-तन्त्रस्य च अनेकाः नवीनाः नमूनाः सन्ति। अनेन सह तितली-उद्यानस्य पालनम्, पाक-उद्यानस्य (किचन्-गार्डन्) संरक्षणम् इत्यादिभिः सर्जनात्मकाभिः प्रवृत्तिभिः लघु-छात्रैः शिक्षा-सह-पर्यावरणसंरक्षणस्य उत्कृष्टम् उदाहरणं प्रस्तुतम्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani