Enter your Email Address to subscribe to our newsletters

बरेली, 16 दिसंबरमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारस्य एकस्मिन् व्यवहारे विषये मुस्लिमसमाजे रोषः शनैः शनैः वर्धमानः अस्ति। जीविकार्थं नियुक्तिपत्रं ग्रहीतुं आगतायाः बुर्काधारिण्याः मुस्लिममहिलायाः मुखात् हिजाबं अथवा नकाबं अपसारयितुं प्रयासः कृतः इति आरोपे आल् इण्डिया मुस्लिम् जमात् इति संस्थायाः राष्ट्रियाध्यक्षः मौलाना मुफ्ती शहाबुद्दीन् रजवी बरेलवी तीव्रां प्रतिक्रिया व्यक्तवान्। सः एतत् मुस्लिममहिलायाः तिरस्काररूपेण वर्णयित्वा मुख्यमन्त्री नीतिशकुमारात् सार्वजनिकं क्षमायाचनं कर्तव्यमिति याचनांकृतवान्।
मौलाना शहाबुद्दीन् रजवी अवदत् यत् कस्यापि महिलायाः धार्मिकपरिचयेन सह हस्तक्षेपः कस्यापि परिस्थितौ स्वीकार्यः न भवति। हिजाबः अथवा नकाबः केवलं अलङ्कारः न, अपि तु मुस्लिममहिलानां श्रद्धा, परिचयः तथा संवैधानिकः अधिकारः अस्ति। सः आरोपं कृतवान् यत् संवैधानिकपदे उपविष्टेन व्यक्तिना एतादृशः व्यवहारः पदस्य गरिमायाः अपि विरुद्धः अस्ति।
मौलाना अपि अवदत् यत् भारतीयसंविधानं प्रत्येकस्मै नागरिकाय स्वश्रद्धानुसारं जीवनयापनं कर्तुं, आहारं चयनितुं, वस्त्रधारणं च कर्तुं पूर्णां स्वतन्त्रतां ददाति। कस्यापि अधिकारः न अस्ति यत् सः बलात् कस्यचित् धार्मिकपरिचयं अपमानयेत्। अस्य विषये सः गहनां अप्रसन्नतां प्रकटयन् अवदत् यत् यदि क्षमायाचनं न क्रियते, तर्हि व्यापकः विरोधः भविष्यति।---------------
हिन्दुस्थान समाचार