Enter your Email Address to subscribe to our newsletters


नवदेहली, १६ दिसम्बरमासः (हि.स.)। मङ्गलवासरे प्रधानमन्त्री नरेन्द्रमोदी “भारत–जॉर्डन व्यापार-सम्मेलनम्” उद्दिश्य सम्बोधनं कृत्वा उद्योग, स्वास्थ्य तथा डिजिटल-समावेशनक्षेत्रेषु सहयोगस्य प्रस्तावम् अकरोत्। स अवदत् यत् ऐतिहासिकः विश्वासः भविष्यस्य आर्थिकावसराश्च उभयोः देशयोः परस्परं संयोजयन्ति।
अद्य भारत–जॉर्डन व्यापार-मञ्चे प्रधानमन्त्री किंग अब्दुल्ला द्वितीयः तस्य युवराजः अल्-हुसैन् बिन् अब्दुल्ला द्वितीयश्च सह उपस्थितः आसीत्। अस्मिन् अवसरे भारत-जॉर्डनयोः मध्ये व्यापार-व्यवसाय-निवेशसम्बन्धानां अधिकसुदृढीकरणाय यान्य् क्षेत्राणि सन्ति, तेषां विषये प्रकाशः कृतः।
व्यापार-सम्मेलने स्वसम्बोधने प्रधानमन्त्री अवदत् यत् भारतस्य विकासदरः 8 प्रतिशताद् अधिका अस्ति। एषा विकासगतिः उत्पादकताप्रेरित-प्रशासनस्य नवाचारप्रेरित-नीतीनां च परिणामः अस्ति। स अवदत् यत् शुष्कजलवायोः कृषेः विषये भारतस्य महान् अनुभवः अस्ति, स च अनुभवः जॉर्डने महत् परिवर्तनं कर्तुं शक्नोति। सुव्यवस्थित-कृषेः सूक्ष्मसिंचनस्य च समाधानानि वयं संयुक्तरूपेण कार्यान्वितुं शक्नुमः इति तेन उक्तम्। शीत-श्रृङ्खला, आहार-उद्यानानि (फूड-पार्काः) तथा भण्डारण-सुविधानां निर्माणे अपि सहकार्यं कर्तुं शक्यते।
प्रधानमन्त्री स्वास्थ्य-क्षेत्रं रणनीतिक-प्राथमिकतायाः क्षेत्रं इति निर्दिश्य अवदत् यत् जॉर्डने भारतीय-कम्पन्यः औषधानि चिकित्सोपकरणानि च निर्मेयुः। एतेन जॉर्डन-जनानां लाभः भविष्यति; सहैव पूर्व-एशिया तथा आफ्रिकादेशानां कृते जॉर्डनः विश्वसनीयः केन्द्रः (हब्) अपि भवितुं शक्नोति।
अन्ते स अवदत् यत् भारतः डिजिटल-प्रौद्योगिकीं समावेशनस्य कार्यदक्षतायाश्च आदर्शरूपेण विकसितवान्। अस्माकं यूपीआइ, आधारः, डिजिटल-लॉकर् इत्यादयः ढाञ्चाः (फ्रेमवर्काः) अद्य वैश्विक-मानकरूपेण उद्भूताः सन्ति। जॉर्डनस्य नेतृत्वेन सह एतेषां ढाञ्चानां जॉर्डनस्य प्रणाल्या सह एकीकरणे चर्चा अपि कृता इति तेन उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता