Enter your Email Address to subscribe to our newsletters

नवदेहली, 16 दिसंबरमासः (हि.स.)। विजयदिवसस्य अवसर पर राष्ट्रपतिः द्रौपदी मुर्मु मङ्गलवासरे राष्ट्रपतिभवने ‘परमवीर-दीर्घा’नाम्नी दीर्घायाः उद्घाटनं कृतवती। अस्यां दीर्घायां देशस्य सर्वोच्चेन सैन्यसम्मानेन परमवीरचक्रेण विभूषितानां सर्वेषां एकविंशति (२१) वीराणां चित्राणि प्रदर्शितानि सन्ति।
अस्मिन् अवसरे रक्षा-मन्त्री राजनाथसिंहः, मुख्य-रक्षाध्यक्षः (सीडीएस) जनरल् अनिल् चौहानः, थलसेनाध्यक्षः जनरल् उपेन्द्रद्विवेदी, वायुसेनाध्यक्षः एयर् चीफ् मार्शल् ए.पी. सिंहः, नौसेनाप्रमुखः एडमिरल् दिनेश् के. त्रिपाठी इत्यादयः अनेके गणमान्याः व्यक्तयः उपस्थिताः आसन्। परमवीर-दीर्घायाः उद्देश्यः राष्ट्रस्य रक्षणे अदम्यसाहसं, शौर्यं च बलिदानं च प्रदर्शयन्ति ये राष्ट्रीय-नायकाः, तेषां विषये आगन्तुकान् शिक्षयितुं भवति। एषः उपक्रमः मातृभूमेः सेवायां स्वप्राणान् न्योछावरयन्तां वीरसपूतानां स्मृतिं सम्मानयितुं अपि प्रयत्नः अस्ति।
येषु वीथीषु अद्य परमवीर-दीर्घा स्थापिता अस्ति, तेषु पूर्वं ब्रिटिश् एडीसी (एड्-डी-कैम्प्) इत्येषां चित्राणि आरोपितानि आसन्। भारतीय-राष्ट्रीय-नायकानां चित्रप्रदर्शनस्य एषा पहल औपनिवेशिक-मानसिकतायाः मुक्त्यर्थं अग्रसरमानस्य भारतस्य समृद्धां संस्कृतिं, विरासतां च गौरवशालिनीं परम्परां च आत्मसात् कर्तुं दिशि महत्वपूर्णं पदं मन्यते। उल्लेखनीयं यत् परमवीरचक्रं भारतस्य सर्वोच्चं सैन्य-अलंकरणम् अस्ति, यत् युद्धकाले असाधारण-वीरतायै, साहसाय च सर्वोच्च-बलिदानाय च प्रदीयते।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani