राष्ट्रपतिः अद्य कर्नाटकस्य मांड्या जिलायाः भ्रमणे
मांड्या (कर्नाटकः), 16 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः अद्य कर्नाटकप्रदेशस्य माण्ड्याजिल्लास्थिते मालवल्ली इति स्थले आयोजिते शिवरात्रि श्रीशिवयोगिनां १०६६ तमस्य जयन्तीमहोत्सवे भागं ग्रहीष्यति। राष्ट्रपतिः अपराह्णे ३:१५ वादने मालवल्
President


मांड्या (कर्नाटकः), 16 दिसंबरमासः (हि.स.)।

राष्ट्रपतिः द्रौपदीमुर्मुः अद्य कर्नाटकप्रदेशस्य माण्ड्याजिल्लास्थिते मालवल्ली इति स्थले आयोजिते शिवरात्रि श्रीशिवयोगिनां १०६६ तमस्य जयन्तीमहोत्सवे भागं ग्रहीष्यति। राष्ट्रपतिः अपराह्णे ३:१५ वादने मालवल्लीकस्बे शान्ति कॉलेजस्य सम्मुखे आयोजितस्य फोरम् कार्यक्रमस्य उद्घाटनं करिष्यति।

अयं महोत्सवः सुत्तूरमठस्य शिवरात्रि देशीकेन्द्रस्वामिनः नेतृत्वे आयोजितः अस्ति। सप्तदिवसीयः अयं कार्यक्रमः २२ डिसम्बर दिनाङ्के समाप्तिं गमिष्यति।

राष्ट्रपतेः आगमनं दृष्ट्वा मालवल्लीकस्बे तस्य समीपवर्तिषु च क्षेत्रेषु कठोरा सुरक्षा व्यवस्था विन्यस्ता अस्ति। प्रायः ३० एकरपरिमिते क्षेत्रे जयन्तीमहोत्सवस्य व्यापकाः सज्जताः कृताः सन्ति।

अस्मिन् कार्यक्रमे राज्यपालः थावरचन्दगहलोतः केन्द्रीयमन्त्री एच. डी. कुमारस्वामी मन्त्री चालुवरयास्वामी विधायकः नरेन्द्रस्वामी इत्यादयः बहवः गणमान्याः व्यक्तयः अपि भागं ग्रहीष्यन्ति।

----00-----------

हिन्दुस्थान समाचार