Enter your Email Address to subscribe to our newsletters

कोलकाता, 16 दिसंबरमासः (हि.स.)।वन्दे मातरम् इति राष्ट्रगीतस्य पञ्चाशदधिकशताब्दिपूर्त्युपलक्ष्ये संस्कारभारती पश्चिमबङ्गालस्य मार्गदर्शनेन समग्रराज्ये वन्देमातरम् गौरवगानकार्यक्रमस्य आरम्भः कृतः। अस्य एव क्रमस्य अन्तर्गतं सोमवासरे उत्तरचतुर्विंशतिपरगनाजनपदे एकं ऐतिहासिकं सांस्कृतिकमहोत्सवं आयोजयत्, येन जनमानसेषु देशभक्तेः नूतना ऊर्जा सञ्चारिता।
अपराह्णे त्रिवादने गोबरडाङ्गानगरस्य ऐतिहासिकजमीन्दारगृहस्य प्राङ्गणे संस्कारभारती उत्तरचतुर्विंशतिपरगनाजिलैकायाः तत्त्वावधानेन सरधशतस्वरैः वन्देमातरम् इति गीतस्य सामूहिकगायनं प्रस्तुतम्। अस्मिन् कार्यक्रमे पञ्चाशदधिकशतं कलाकाराः बङ्किमचन्द्रचट्टोपाध्यायेन विरचितस्य अखण्डवन्देमातरम् गीतस्य भावपूर्णं गरिमामयं च गायनं कृतवन्तः।
अस्मिन् आयोजने जनपदस्य सप्तदश विभिन्नाः सांस्कृतिकसामाजिकसंघटनानां प्रतिनिधयः उपस्थिताः आसन्। सर्वे एकस्वरेण वन्देमातरम् इति गीतमाध्यमेन मातृभूमेः प्रति सम्मानं कृतज्ञतां च व्यक्तवन्तः। अयं कार्यक्रमः वन्देमातरम् गीतरचनायाः सरधशताब्दीं सम्मानयितुं विशेषतया आयोज्यते स्म।
संस्कारभारती पश्चिमबङ्गालपरिवारेण स्पष्टं कृतं यत् एषा पहल केवलं एकस्मिन् जनपदे एव न सीमिता भविष्यति। आगामिदिनेषु राज्यस्य प्रत्येकस्मिन् जनपदे सार्वजनिकस्थलेषु सरधशतस्वरैः वन्देमातरम् गौरवगानकार्यक्रमाः आयोजयिष्यन्ते, येन नवपीढीं देशभक्त्या सांस्कृतिकचेतनया च सह संयोजयितुं शक्येत।
गोबरडाङ्गानगरस्य अयं आयोजनः राज्यव्यापीअभियानस्य सुदृढारम्भः इति मन्यते, यः सांस्कृतिकमञ्चमाध्यमेन राष्ट्रप्रेमभावनां पुनः एकवारं सुस्पष्टतया अभिव्यक्तवान्।
हिन्दुस्थान समाचार