ईरोडे तवेकायाः जनसभायै सानुबंधम् अनुमतिः, अभिनेता विजय करिष्यति संबोधनम्
ईरोड, 16 दिसंबरमासः (हि.स.)। विधानसभानिर्वाचनानां समीपगमनेन तमिलनाडुराज्यस्य राजनीतौ सरगर्मता तीव्रा जाता अस्ति। प्रमुखाः राजनीतिकदलाः प्रचारयात्राभिः गठबन्धनरणनीतिभिः कार्यकर्तृभिः सह उपवेशनैश्च निर्वाचनसज्जासु संलग्नाः सन्ति। अस्यैव क्रमस्य अन्तर
मैदान नवीनीकरण कार्य सक्रिय


ईरोड, 16 दिसंबरमासः (हि.स.)। विधानसभानिर्वाचनानां समीपगमनेन तमिलनाडुराज्यस्य राजनीतौ सरगर्मता तीव्रा जाता अस्ति। प्रमुखाः राजनीतिकदलाः प्रचारयात्राभिः गठबन्धनरणनीतिभिः कार्यकर्तृभिः सह उपवेशनैश्च निर्वाचनसज्जासु संलग्नाः सन्ति। अस्यैव क्रमस्य अन्तर्गतं तमिलगा वेट्री कज़गम् (तवेका) दलस्य पक्षेण गुरुवासरे ईरोड् जनपदे विजयमङ्गल टोल् बूथ् समीपे एका सार्वजनिकसभा आयोजितुं निश्चितम्।

एषा सभा विजयपुरी अम्मन् मन्दिरस्य प्राङ्गणे आयोजिता भविष्यति, यत्र प्रायः पञ्चविंशतिसहस्रं जनानां आगमनस्य सम्भावना अस्ति। कार्यक्रमे दलनेता अभिनेता विजयः अपि सहभागं कृत्वा जनान् सम्बोधयिष्यति।

सभानुमतये पुलिसविभागेन चतुरशीतिः प्रश्नाः पृष्टाः आसन्, येषां उत्तराणि आवश्यकदस्तावेजानि च तवेका दलः प्रस्तुतवान्। ततः अनन्तरं मन्दिरस्य कार्यकारीधिकारी पुलिस् विभागः तथा जिलाप्रशासनं च सूचितवन्तः यत् हिन्दूधार्मिकधर्मार्थबन्दोबस्तविभागात् पूर्वं अनुमतिः न प्राप्ता आसीत्। किन्तु पश्चात् मन्दिरप्रशासनात् अनापत्तिप्रमाणपत्रं प्राप्य पञ्चप्रतिबन्धानां सहितं सभानुमतिः प्रदत्ता।

शर्तानां अन्तर्गतं सार्वजनिकसभास्थलाय पञ्चाशत्सहस्ररूप्यकाणां जमा पञ्चाशत्सहस्ररूप्यकाणां भाडा च दातव्यः इति व्यवस्था कृता। अपि च सभायां आगच्छन्तां जनानां कृते पेयजलम् आहारः सुरक्षा च इत्यादीनां सुविधानां उपलब्धता अनिवार्या कृता। एतत् अनन्तरं १८ डिसम्बरदिने ईरोड् जनपदपुलिस् विभागेन सभायाः औपचारिकानुमतिः प्रदत्ता।

पुलिस् विभागेन सभायै प्रातः ११ वादनतः अपराह्णे १ वादनपर्यन्तं केवलं द्वौ घण्टौ कालः निश्चितः। तदनन्तरं अम्बुलेन्सयानानां अग्निशमनयानानां च तैनाती अनिवार्या कृताः।

अनुमतिप्राप्तेः पश्चात् सभास्थले क्रीडाङ्गणस्य नवीनीकरणकार्यं तीव्रतया प्रवर्तते। पुलिसनिर्देशानुसारं स्वयंसेवकानां नियुक्तिः अन्याः व्यवस्थाः च समये समाप्यमाणाः सन्ति। सभायां भागग्रहणकर्तॄणां प्रवेशः क्यूआर्-कोड्-आधारितानुमत्याः माध्यमेन दास्यते।

क्रीडाङ्गणे महिलाभ्यः पृथक् स्थानं निर्दिष्टं कृतम्, येन ताः सुरक्षितरूपेण उपविश्य दलनेता विजयस्य भाषणं समीपतः श्रोतुं शक्नुवन्ति। प्रशासनस्य पक्षेण सर्वनियमानां कठोरपालनस्य आश्वासनं दत्तम्।--------------

हिन्दुस्थान समाचार