वात्सल्य योजनायाः अंतर्गतानां अनाथबालानां कोषेषु नवलक्षोत्तर 3 कोटिमितरुप्यकाणि कोषेषु स्थानांतरितानि
-महिला सशक्तिकरण एवं बाल विकास मंत्री रेखा आर्या डीबीटी कृतानि 2 मासीयरूप्यकाणि देहरादूनम्, 16 दिसंबरमासः (हि.स.)।उत्तराखण्डराज्यस्य महिलासशक्तीकरण–बालविकासमन्त्री रेखा आर्या मङ्गलवासरे मुख्यमन्त्री वात्सल्ययोजनायाः अन्तर्गतं लाभार्थिभ्यः द्विमास
महिला सशक्तिकरण एवं बाल विकास मंत्री रेखा आर्या मुख्यमंत्री वात्सल्य योजना के तहत लाभार्थियों के राशि स्तान्तरित कार्यक्रम में।


-महिला सशक्तिकरण एवं बाल विकास मंत्री रेखा आर्या डीबीटी कृतानि 2 मासीयरूप्यकाणि

देहरादूनम्, 16 दिसंबरमासः (हि.स.)।उत्तराखण्डराज्यस्य महिलासशक्तीकरण–बालविकासमन्त्री रेखा आर्या मङ्गलवासरे मुख्यमन्त्री वात्सल्ययोजनायाः अन्तर्गतं लाभार्थिभ्यः द्विमासस्य कृते त्रिकोटि नवलक्षाधिक नवसहस्ररूप्यकाणां धनराशिं निर्गतवती।

सोमवासरे स्वकैंपकार्यालये लाभार्थिनां कोषेषु डीबीटी माध्यमेन धनराशेः स्थानान्तरणानन्तरं मन्त्री रेखा आर्या अवदत् यत् अस्यां योजनायां राज्यशासनं सन् २०२० तः एव कोरोना-महामारीकाले अभिभावकवियोगेन अनाथतां प्राप्तानां बालकानां कृते प्रतिमासं त्रिसहस्ररूप्यकाणां सहाय्यधनराशिं प्रददाति। अस्याः योजनायाः अन्तर्गतं २५ सेप्टेम्बरपर्यन्तस्य धनराशिः पूर्वमेव निर्गता आसीत्।

मन्त्रिणी अवदत् यत् अक्टूबरमासे ५१७७ लाभार्थिभ्यः एककोटि पञ्चपञ्चाशल्लक्ष एकत्रिंशत्सहस्ररूप्यकाणां धनराशिः, तथा नवम्बरमासस्य कृते ५१४७ लाभार्थिभ्यः एककोटि चतुःपञ्चाशल्लक्ष एकचत्वारिंशत्सहस्ररूप्यकाणां धनराशिः प्रदत्ता अस्ति। सा अपि अवदत् यत् अस्यां योजनायां लाभार्थिनः आयुः एकविंशतिवर्षं पूर्णं भवति, अथवा बालिकालाभार्थिन्याः विवाहः भवति, अथवा लाभार्थी सेवायोजितः भवति चेत् सः/सा योजनातः बहिः भवति।

अस्मिन् अवसरे विभागीयनिदेशकः बंसीलालराणा, भाजपानेता इन्दररावतः, सीपीओ अञ्जनागुप्ता, उपसीपीओ राजीवनयनः इत्यादयः अन्ये अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार