Enter your Email Address to subscribe to our newsletters

लखनऊ, 16 दिसंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे अपराह्णकाले एकां महत्त्वपूर्णां समीक्षाबैठकां करिष्यति। सीएम् कमाण्ड् सेन्टर् एनेक्सी इति स्थले आयोजितायां अस्यां समीक्षागोष्ठ्यां उपमुख्यमन्त्री केशवप्रसादमौर्यः ब्रजेशपाठकः च तथा शासनस्य सर्वे मन्त्रिणः सहभागं करिष्यन्ति।
अस्यां गोष्ठ्याम् ऊर्जाविभागस्य लोकनिर्माणविभागस्य जलशक्तिविभागस्य ग्राम्यविकासविभागस्य खाद्यरसदविभागस्य नगरविकासविभागस्य चिकित्सा-स्वास्थ्यविभागस्य सिंचाइविभागस्य नगरीयजीविकानिर्धनोन्मूलनविभागस्य च समीक्षाः क्रियन्ते। एषा बैठक अतीव महत्त्वपूर्णा अस्ति यतः अस्याम् वित्तीयस्वीकृतिषु विभागीयप्रगतिसम्बन्धेषु च विषयेषु विस्तृतः विचारविमर्शः भविष्यति।------------
हिन्दुस्थान समाचार