Enter your Email Address to subscribe to our newsletters


अयोध्या, 16 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे रामनगरीम् अयोध्यां प्राप्नोत्। तत्र सः श्रीरामजन्मभूमिमन्दिरे तथा हनुमानगढीमन्दिरे दर्शनपूजनं कृतवान्।
तदनन्तरं श्रीरामजन्मभूमि–मन्दिर–आन्दोलनस्य अग्रणीः सन्तः तथा भाजपायाḥ पूर्वसांसदः डा. रामविलासदासः वेदान्ती महाराजस्य पार्थिवशरीरे पुष्पाणि अर्पयित्वा श्रद्धाञ्जलिं दत्तवान्।
उल्लेखनीयं यत् डा. रामविलासदासः वेदान्ती महाराजः सोमवासरे मध्यप्रदेशस्य रीवायां दिवंगतः अभवत्। अद्य अयोध्यायां सहस्रशः जनाः तस्मै अन्तिमविदायां दत्तवन्तः।
हिन्दुस्थान समाचार