Enter your Email Address to subscribe to our newsletters

नवदेहली, 16 दिसम्बरमासः (हि.स.)। मङ्गलवासरे उत्तरप्रदेशस्य मथुरानगरे यमुना-एक्सप्रेसवे मार्गे जातायां भीषणायां मार्गदुर्घटनायां प्रधानमन्त्रिणा नरेन्द्रमोदिना शोकः व्यक्तः। अस्यां दुर्घटनायां 6 जनाः प्राणान् त्यक्तवन्तः, 25 अधिकाः जनाः च आहताः सन्ति। प्रधानमन्त्रिणा अस्याः दुर्घटनायाः आहतानां कृते अनुग्रहधनस्य अपि घोषणा कृता।
प्रधानमन्त्री नरेन्द्रमोदी सामाजिकमाध्यम-मञ्चे “एक्स” इत्यत्र अद्य अवदत् यत् यमुना-एक्सप्रेसवे मार्गे घटितायां दुर्घटनायां जनानां प्राणहानिः अत्यन्तं दुःखदः विषयः अस्ति। ये जनाः स्वप्रियान् त्यक्तवन्तः, तैः सह तस्य संवेदनाः सन्ति। सः आहतानां शीघ्रस्वास्थ्यलाभाय प्रार्थनां करोति। तेन घोषितं यत् प्रधानमन्त्री-राष्ट्रिय-राहत-कोषात् (पीएमएनआरएफ) प्रत्येकस्य मृतकस्य कुटुम्बाय 2 लक्षरूप्यकाणि अनुग्रहरूपेण दास्यन्ते। आहतानां कृते 50 सहस्र-रूप्यकाणि दास्यन्ते।
उल्लेखनीयं यत् देहली–आग्रा यमुना-एक्सप्रेसवे मार्गे मथुराजनपदे अद्य प्रभाते सप्त बसयानानि त्रयश्च कारयानानि परस्परं संघट्टितानि, येन भीषणा अग्निः प्रज्वलिता तथा महती जनहानिः जाता। अग्निशमनकर्मिभिः अग्निः नियन्त्रणे आनीतः। स्थानिकाधिकारिभिः उक्तं यत् घनकुहासायाः मध्ये सप्त बसयानानि त्रयश्च कारयानानि परस्परं आहतानि, तत् पश्चात् तेषु वाहनेषु अग्निः उत्पन्नः। 6 जनानां मरणं पुष्टं कृतम् अस्ति, 25 अधिकाः जनाः दग्धाः सन्ति। एक्सप्रेसवे मार्गस्य प्रभाविते भागे यातायातः अस्थायीरूपेण निरुद्धः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता