प्रहार महायज्ञ : संघस्य शाखासु स्वयंसेवकाः अकुर्वन् दण्डप्रहारम्
लखनऊ, 16 दिसम्बरमासः (हि.स.)।वर्षे १९७१ तमे भारत–पाकिस्तानयुद्धे भारतस्य प्राप्तायाः ऐतिहासिकविजयायाः उपलक्ष्ये १६ दिसम्बरदिने सम्पूर्णे देशे विजयदिवसः आचर्यते। तदेव राष्ट्रियस्वयंसेवकसंघः प्रतिवर्षं १६ दिसम्बरदिने शाखासु दण्डप्रहारं कृत्वा भारतीयश
राष्ट्रीय स्वयंसेवक संघ


लखनऊ, 16 दिसम्बरमासः (हि.स.)।वर्षे १९७१ तमे भारत–पाकिस्तानयुद्धे भारतस्य प्राप्तायाः ऐतिहासिकविजयायाः उपलक्ष्ये १६ दिसम्बरदिने सम्पूर्णे देशे विजयदिवसः आचर्यते। तदेव राष्ट्रियस्वयंसेवकसंघः प्रतिवर्षं १६ दिसम्बरदिने शाखासु दण्डप्रहारं कृत्वा भारतीयशौर्यं प्रणम्य प्रहारदिवसं आचरति।

अद्य मङ्गलवासरे राष्ट्रियस्वयंसेवकसंघस्य सर्वासु शाखासु स्वयंसेवकैः दण्डप्रहारः कृतः। संवादनगरस्थितायां अम्बेडकरशाखायां सहप्रान्तप्रचारकः संजयः स्वयंसेवकैः सह दण्डप्रहारं कृतवान्। सहप्रान्तप्रचारकः अवदत् यत् एषः प्रहारयज्ञः राष्ट्रस्य विजयाय शौर्याय च वीरजवानानां बलिदानाय समर्पितः अस्ति। अस्मिन्नेव दिने भारतीयसैनिकानां पराक्रमस्य पुरतः पाकिस्तानस्य त्रिणवतिसहस्रं सैनिकाः आत्मसमर्पणं कृतवन्तः।

सः अपि अवदत् यत् अवधप्रान्तस्य सर्वेषु जनेषु शाखासु स्वयंसेवकैः दण्डप्रहारः कृतः।

हिन्दुस्थान समाचार