वाल्मीकि ब्याघ्र परियोजनायां चित्रग्राहकाः प्रयुक्ताः व्याघ्राणां संख्यां ज्ञातुम्
पश्चिम चंपारणम्(बगहा) 16 दिसम्बरमासः(हिं.स.)। बिहारराज्यस्य एकमात्रे वाल्मीकि टाइगर रिजर्वे (वीटीआर) व्याघ्राणां गणनार्थं वनकर्मचारिणां प्रशिक्षणं दीयते। पूर्वं व्याघ्रगणनायै अनुवर्तनपद्धतेः (ट्रैकिङ्ग पद्धतेः) उपयोगः क्रियते स्म। मृत्तिकायां दृश्
Camera


कैमरा


पश्चिम चंपारणम्(बगहा) 16 दिसम्बरमासः(हिं.स.)।

बिहारराज्यस्य एकमात्रे वाल्मीकि टाइगर रिजर्वे (वीटीआर) व्याघ्राणां गणनार्थं वनकर्मचारिणां प्रशिक्षणं दीयते। पूर्वं व्याघ्रगणनायै अनुवर्तनपद्धतेः (ट्रैकिङ्ग पद्धतेः) उपयोगः क्रियते स्म। मृत्तिकायां दृश्यन्तेषु व्याघ्रपादचिह्नेषु चूर्णस्य लेपनं कृत्वा तेषां सुनिश्चितपरिचयः क्रियते स्म, ततः व्याघ्राणां गणना भवति स्म। अधुना तु व्याघ्रगणना आधुनिकोपकरणानां साहाय्येन तथा च हस्तचालितपद्धत्या अपि क्रियते। प्रतिवेदननिर्माणार्थं कैमरा ट्रैप तथा “एम स्ट्राइप” इति नाम्ना प्रसिद्धस्य मोबाइल अनुप्रयोगस्य उपयोगः भविष्यति।

“एम स्ट्राइप” इति मोबाइल अनुप्रयोगस्य संचालनार्थं वनाधिकारिणां कर्मकराणां च प्रशिक्षणं प्रदीयते। अयं मोबाइल अनुप्रयोगः जीपीएस इव कार्यं करोति। दिवसभरं वने गश्तं कृत्वा अनुप्रयोगे संकलितं दत्तांशं टाइगर सेल इति केन्द्रे सुरक्षितं स्थाप्यते। व्याघ्राणां आवागमनमार्गस्य उभयतः कैमरा यन्त्राणि स्थाप्यन्ते। यदा व्याघ्राः तेन मार्गेण गच्छन्ति, तदा तेषां छायाचित्राणि कैमरा ट्रैपद्वारा स्वयमेव गृहीतानि भवन्ति। अनन्तरं व्याघ्राणां शरीरे स्थितानां धारिणां तुलनात्मकमिलानं क्रियते। यथा द्वयोः मनुष्ययोः अङ्गुलिमुद्राः समानाः न भवन्ति, तथैव व्याघ्राणां शरीरे स्थिताः धाराः अपि कदापि समानाः न भवन्ति।

प्रायः ९०० वर्गकिलोमीटरपरिमिते क्षेत्रे विस्तीर्णे वीटीआर मध्ये सन् २०००–२००१ तमे वर्षे कृतायां गणनायां व्याघ्राणां संख्या प्रायः ३० आसीत्। सन् २००५–०६ तमे वर्षे एषा संख्या घटित्वा १८ अभवत्। सन् २०१० तमे वर्षे तु अस्मिन् क्षेत्रे केवलं अष्टौ व्याघ्राः एव प्राप्ताः। सन् २०१४ तमे वर्षे कृताया गणनाया अनन्तरं आश्चर्यकराः परिणामाः अभवन्, यदा व्याघ्राणां संख्या अष्टात् वर्धित्वा २८ अभवत्। सन् २०१८ तमे वर्षे एषा संख्या ३५ पर्यन्तं प्राप्तवती, तथा सन् २०२२ तमे वर्षे व्याघ्राणां संख्या ५४ पर्यन्तं अभवत्।

देहरादूनतः भविष्यति वास्तविकसंख्यायाः घोषणा

व्याघ्राणां वास्तविकसंख्या कियत् इति विषयस्य औपचारिकघोषणा देहरादूननगरात् क्रियते। सन् २०२६ तमे वर्षे भविष्यमाणायाः राष्ट्रियव्याघ्रगणनायाः विषये वाल्मीकि टाइगर रिजर्वे सिद्धताः तीव्रतया प्रचलन्ति। वस्तुतः राष्ट्रियव्याघ्रसंरक्षणप्राधिकरणेन (एनटीसीए) प्रत्येकं चतुर्षु वर्षेषु एकवारं राष्ट्रियस्तरे व्याघ्रसंख्यायाः अनुमानं क्रियते। सामान्यभाषायां एषा “व्याघ्रगणना” इति कथ्यते।

अस्मिन् सन्दर्भे सीएफ नेशमणिः अवदत् यत् सम्पूर्णदेशे “ऑल इण्डिया टाइगर एस्टिमेशन” योजनाया अन्तर्गतं एषा गणना प्रत्येकं चतुर्षु वर्षेषु एकवारं क्रियते, यस्य उद्देश्यं देशे व्याघ्राणां वास्तविकसंख्या, तेषां आवासक्षेत्रं, वितरणं तथा संरक्षणस्थितेः यथार्थमूल्याङ्कनं कर्तुं भवति।

अस्मिन् महत्त्वपूर्णे राष्ट्रियाभियाने भारतीयवन्यजीवसंस्थानस्य (डब्ल्यू आई आई) भूमिका अतीव महत्त्वपूर्णा अस्ति। संस्थानद्वारा वनविभागस्य अधिकारिणां कर्मकराणां च विशेषप्रशिक्षणं दत्तं, येन गणना पूर्णतया वैज्ञानिकरीत्या, पारदर्शकरूपेण तथा विश्वसनीयतया च सम्पन्ना भवेत्। अस्यां वार्तायां अपि व्याघ्रगणनायाः वैज्ञानिकमानकेषु विशेषः बलः दीयते।

व्याघ्रगणनायै आधुनिककैमरा ट्रैप प्रौद्योगिक्याः व्यापकः उपयोगः भविष्यति। क्षेत्रीयजीवविज्ञानी सौरभवर्मणः मतानुसारं एषा वर्तमानकाले व्याघ्रगणनायाः सर्वाधिकविश्वसनीया तथा मान्यता प्राप्ता पद्धतिः अस्ति। कैमरा ट्रैप माध्यमेन व्याघ्राणां छायाचित्राणि गृह्यन्ते, येषु तेषां शरीरे स्थितानां धाराप्रतिरूपस्य आधारेण परिचयः क्रियते। प्रत्येकस्य व्याघ्रस्य धाराः मानवानां अङ्गुलिमुद्राणामिव अद्वितीयाः भवन्ति, येन प्रत्येकस्य व्याघ्रस्य सटीकपरिचयः सम्भवः भवति।

अनेन वैज्ञानिकविधिना न केवलं व्याघ्राणां वास्तविकसंख्यायाः मूल्याङ्कनं भवति, अपि तु तेषां गमनपद्धतिः, क्षेत्रीयविस्तारः, व्यवहारसम्बद्धं च महत्त्वपूर्णं दत्तांशं अपि लभ्यते। एषा सूचना भविष्ये व्याघ्रसंरक्षणनीतिनिर्माणे, वनप्रबन्धनस्य सुदृढीकरणे, मानववन्यजीवसंघर्षस्य न्यूनिकरणे च सहायकं सिद्ध्यति। अस्मिन् अवसरः पङ्कजओझा तथा डब्ल्यू डब्ल्यू एफ संस्थायाः अहवर आलम इत्येतौ अपि उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार