Enter your Email Address to subscribe to our newsletters

वाराणसी, 16 दिसम्बरमासः(हि. स.)।
उत्तरप्रदेशस्य वाराणसीनगरे भारतस्य प्रथमंनगरीयं सार्वजनिकपरिवहनरोपवेनिर्माणं वर्ष २०२६ तमे मयस्मासपर्यन्तं आरम्भयितुं सिद्धता क्रियते। अष्टशतकोटिरूप्यकव्ययेन निर्मीयमानस्य अस्य परिवहनरोपवेस्य निर्माणकार्यं पूर्णतां यावत् वाराणसीं आगच्छतां पर्यटकानां कृते अपि आकर्षणीयं भवति।
वाराणसीविकासप्राधिकरणस्य उपाध्यक्षः पुलकितगर्गः अवदत् यत् भारतस्य तथा एशियायाः प्रथमस्य अर्बन रोपवेस्य निर्माणकार्यं तीव्रगत्या प्रचलति। बहिःप्रदेशेभ्यः आगच्छन्तः पर्यटकाः रोपवेस्य निर्माणकार्यं द्रष्टुं विशेषरुचिं दर्शयन्ति। बहवः पर्यटकाः रोपवे निर्माणकार्यं द्रष्टुं आगच्छन्ति।
सः अपि अवदत् यत् परिवहनरोपवे आगामिवर्षस्य मयस्मासपर्यन्तं निर्मितः सन्नद्धः भविष्यति इति अपेक्षा अस्ति। रोपवे निर्मिते सति वाराणसी जङ्क्शन रेलस्थानकात् अवतीर्णानां पर्यटकानां कृते काशीविश्वनाथमन्दिरं प्रति यात्रायां केवलं विंशतिमिनिटपरिमितः कालः एव आवश्यकः भविष्यति। तेन यात्रा अत्यन्तं सुकरा भविष्यति।
अस्य रोपवे मार्गस्य कुलदीर्घता प्रायः चतुर्किलोमीटरपरिमिता अस्ति। अस्य स्थानेषु रेलस्थानक काण्ट, विद्यापीठ, रथयात्रा, गोदौलिया इत्येतेषु यात्रिकाणां आवागमनार्थं रोपवेस्थानकानि निर्मितानि सन्ति।
---------------
हिन्दुस्थान समाचार