Enter your Email Address to subscribe to our newsletters


कोलकाता, १६ दिसम्बरमासः (हि.स.)। विजयदिवसस्य अवसरे मङ्गलवासरे कोलकातानगरे विजयदुर्गस्थिते सेनायाः पूर्वीनियन्त्रणमुख्यालये १९७१ तमे भारतपाकिस्तानयुद्धे सर्वोच्चबलिदानं दत्तवद्भ्यः सैनिकेभ्यः श्रद्धाञ्जलिः अर्पिता। अस्मिन् अवसरे आयोजिते कार्यक्रमे पश्चिमबङ्गालस्य राज्यपालः डाॅ. सी.वी. आनन्द बोस, मिजोरमस्य राज्यपालः जनरल् वी.के. सिंहः (सेवानिवृत्तः), पूर्वीनियन्त्रणस्य सेनापति लेफ्टिनेन्ट् जनरल् आर.सी. तिवारी, भारतस्य वीराः पूर्वसैनिकाः, भारतीयसशस्त्रबलानां अधिकारिणः तथा बाङ्ग्लादेशस्य प्रतिनिधिमण्डलं च उपस्थितम् आसीत्।
बाङ्ग्लादेशप्रतिनिधिमण्डले मोहम्मद् हबीबुल् आलम्, मेजर् अलिक् कुमार् गुप्ता (सेवानिवृत्तः), मेजर् कमरुल् आबेदीन् (सेवानिवृत्तः), मेजर् मनीष् देवन् (सेवानिवृत्तः), मेजर् मोहम्मद् अब्दुल् हकीम् (सेवानिवृत्तः), ब्रिगेडियर् जनरल् मोहम्मद् लुत्फुर् रहमान्, मेजर् शेर्-ए-शहबाज् तथा ब्रिगेडियर् जनरल् मोहम्मद् हाफिजुर् रहमान् समाविष्टाः आसन्। रहमान्-महोदयः बाङ्ग्लादेशप्रतिनिधिमण्डलस्य नेतृत्वं कृतवान्। सर्वैः मिलित्वा १९७१ तमे मुक्तिसङ्ग्रामे शहीदाः भारतीयबाङ्ग्लादेशीययोद्धारः नमस्कृताः।
अस्मिन् अवसरे मिजोरमस्य राज्यपालः वी.के. सिंहः अवदत्—१६ दिसम्बरः सः ऐतिहासिकः दिवसः अस्ति यदा भारतीयसशस्त्रबलैः तथा बाङ्ग्लादेशस्य मुक्तियोद्धृभिः निर्णायिका विजयः प्राप्ता। एषः विजयः केवलं सैनिकसफलता नासीत्, अपि तु साहसस्य, बलिदानस्य, न्यायस्य च विजयस्य प्रतीकः आसीत्। बाङ्ग्लादेशेन एषः इतिहासः सदा स्मर्तव्यः इति सः अवदत्।
पश्चिमबङ्गालस्य राज्यपालः डाॅ. सी.वी. आनन्द बोस अवदत् विजयदिवसः पाकिस्तानदेशस्य अत्याचाराणां विरुद्धं भारतस्य दृढकार्यं सूचयति। अस्मिन् अवसरे उभयदेशयोः पक्षे युद्धं कृत्वा ये जनाः बलिदानं दत्तवन्तः, ते सर्वदा स्मरणीयाः। अयं आयोजनः तेषां सम्मानाय एव अस्ति।
भारतीयसेनायाः पूर्वीनियन्त्रणया प्रदत्ते वक्तव्ये उक्तं यत् एतेषु प्रकारेषु संयुक्तस्मृत्या सम्बद्धाः कार्यक्रमाः भारतबाङ्ग्लादेशयोः भ्रातृत्वस्य पारस्परिकसम्मानस्य च सम्बन्धान् अधिकं सुदृढान् कुर्वन्ति। विजयदिवसस्य एषः आयोजनः उभयदेशयोः ऐतिहासिकमित्रतां संयुक्त-सङ्घर्षस्य स्मृतिं च पुनः जीवयति।
उल्लेखनीयं यत् विजयदुर्गे विजयदिवसस्य स्मरणार्थं सप्ताहव्यापी कार्यक्रमस्य आयोजनं भवति। सप्तदिसम्बरदिनाङ्के कर्टन-रेज़र इत्यनेन सह अस्य आरम्भः अभवत्। पञ्चदशदिसम्बरदिनाङ्के कोलकातानगरे ऐतिहासिके रेस्कोर्सक्षेत्रे सैन्यशक्तेः भव्यः प्रदर्शनः कृतः, यस्मिन् भारतीयसेनायाः वीरयोधाः अश्वारोहणं, आकाशपतनम् , शीघ्रउड्डयनं तथा युद्धकौशलस्य अद्भुतं प्रदर्शनं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता