इतिहासं विस्मरन् राष्ट्रं स्व-अस्तित्वं नाशयति — राज्यपालः जनरल् वी. के. सिंहः
— बाङ्ग्लादेशस्य सुखशान्तेः कामना कोलकाता, 16 दिसम्बरमासः (हि.स.)।१९७१ तमे वर्षे भारतपाकिस्तानयुद्धे प्राप्त- ऐतिहासिकविजयस्य स्मृत्यर्थं कोलकातानगरस्थिते पूर्वीसेनाकमानमुख्यालये ‘विजयदुर्गे’ विजयदिवसस्य भव्यसमारोह: आयोजितः, यस्मिन् मिजोरमराज्यस्य
वी के सिंह


— बाङ्ग्लादेशस्य सुखशान्तेः कामना

कोलकाता, 16 दिसम्बरमासः (हि.स.)।१९७१ तमे वर्षे भारतपाकिस्तानयुद्धे प्राप्त- ऐतिहासिकविजयस्य स्मृत्यर्थं कोलकातानगरस्थिते पूर्वीसेनाकमानमुख्यालये ‘विजयदुर्गे’ विजयदिवसस्य भव्यसमारोह: आयोजितः, यस्मिन् मिजोरमराज्यस्य राज्यपालः जनरल् वी. के. सिंहः विशेषतया उपस्थितः आसीत्।

विजयदिवसस्य अवसरे सञ्चारमाध्यमैः सह संवादे जनरल् वी. के. सिंहः भारतबाङ्ग्लादेशसम्बन्धानां तथा समिलित-इतिहासस्य विषये महत्त्वपूर्णं वक्तव्यं दत्तवान्। सः अवदत्— यत् राष्ट्रं यत् स्व-इतिहासं विस्मरति, तस्य अस्तित्वं दीर्घकालं न तिष्ठति।

१९७१ तमे युद्धं साहसस्य, बलिदानस्य तथा निर्णायकनेतृत्वस्य प्रतीकम् इति वर्णयन् सः अवदत् यत् एषः दिवसः सम्मानपूर्वकं गौरवेन च स्मरणीयः अस्ति। सः स्पष्टतया उक्तवान् यत् भारतस्य अभिलाषा अस्ति— बाङ्ग्लादेशे सुखशान्तिः भवतु, तस्य आर्थिकविकासः च अधिकं सुदृढः भवतु।

भारतबाङ्ग्लादेशसम्बन्धानां विषये जनरल् सिंहः अवदत् यत् उभयोरपि राष्ट्रयोः सम्बन्धाः सदा सहयोगपूर्णाः आसन्, भविष्येऽपि मैत्रीभावः स्थिरः भविष्यति। सः बलं दत्त्वा अवदत् यत् विजयदिवसः उभयदेशीयवीरपुत्राणां सम्मानस्य दिवसः अस्ति, न तु कस्यचित् राजनैतिकविवादस्य मंचः।

पूर्वोत्तरभारतस्य सन्दर्भे सः प्रधानमन्त्री नरेन्द्रमोदीमहाभागस्य नेतृत्वे वर्तमानसर्वकारस्य प्रयत्नानां प्रशंसां कृतवान्। सः अवदत् यत् वर्तमानकार्यकाले पूर्वोत्तरप्रदेशः तीव्रगत्या विकसितः अस्ति तथा पूर्वापेक्षया अधिकं सुरक्षितः अपि जातः। क्रीडा, आधारभूतसंरचना, सामाजिकविकासः इत्यादिषु सर्वेषु क्षेत्रेषु पूर्वोत्तरप्रदेशः नवदिशां प्राप्तवान्।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीमहाभागस्य स्पष्टनिर्देशः अस्ति— ‘अष्टलक्ष्मी’ इति कथितेषु पूर्वोत्तरराज्येषु विकासस्य वेगः निरन्तरं स्थायित्वं प्राप्नुयात्। जनरल् सिंहः अवदत् यत् गतदशवर्षेषु पूर्वोत्तरप्रदेशे यावत् कार्यं सम्पन्नं, तावत् पूर्वं कदापि न अभवत्।

भारतीयसैन्यबलानां क्षमताविषये जनरल् वी. के. सिंहः अवदत् यत् सेनायां शीर्षपदेषु कार्यानुभवस्य आधारे सः निश्चयेन वक्तुं शक्नोति— अद्य देशस्य सैन्यशक्तिः पूर्वापेक्षया अत्यन्तं सुदृढा जाता अस्ति। सः एतत् राष्ट्रियसुरक्षायाः दृष्ट्या अत्यन्तं सकारात्मकं संकेतम् इति निरूपितवान्।

बाङ्ग्लादेशस्य वर्तमानराजनैतिकस्थितेः विषये टिप्पणीम् अस्वीकारं कृत्वा सः स्पष्टतया अवदत् यत् विजयदिवसस्य मूलोद्देश्यः १९७१ तमे युद्धे बलिदानं कृतवतां वीराणां नमनं कर्तुं एव अस्ति, तथा सः दिवसः तस्यैव भावनया आचरितव्यः।

---

हिन्दुस्थान समाचार / अंशु गुप्ता