युवभारतीक्रीडांगणे पेयजलस्य महार्घताम् आधृत्य सुकांतः नुन्नवान्
कोलकाता, 16 दिसंबरमासः (हि.स.)। कोलकातास्थिते युवा भारती क्रीडाङ्गणे दिसम्बरमासस्य त्रयोदशे दिने सम्पन्ने फुटबॉलखेलाडोः लियोनेल मेसीस्य कार्यक्रमे पेयजलस्य अत्युच्चमूल्येन विक्रयः अभवत् इति विषयं प्रति केन्द्रीयमन्त्री डॉ. सुकान्त मजूमदारः कटाक्
केंद्रीय मंत्री डॉ. सुकांत मजूमदार


कोलकाता, 16 दिसंबरमासः (हि.स.)।

कोलकातास्थिते युवा भारती क्रीडाङ्गणे दिसम्बरमासस्य त्रयोदशे दिने सम्पन्ने फुटबॉलखेलाडोः लियोनेल मेसीस्य कार्यक्रमे पेयजलस्य अत्युच्चमूल्येन विक्रयः अभवत् इति विषयं प्रति केन्द्रीयमन्त्री डॉ. सुकान्त मजूमदारः कटाक्षं कृतवान्। अस्मिन् विषये सः मङ्गलवासरे स्वस्य ‘एक्स्’ हस्तके लेखं प्रकाशितवान्।

स्वलेखे सः अवदत् यत् दिसम्बरमासस्य त्रयोदशे दिने युवा भारती क्रीडाङ्गणे सुरक्षा नियमाणां उल्लङ्घनं कृत्वा अत्यधिकमूल्येन जलस्य बोतलाः विक्रीताः। अद्यापि अयोग्यस्य मुख्यमन्त्रिणः निर्देशानुसारं कार्यं कुर्वन्ती पुलिस् अस्य प्रकरणस्य अनुसन्धानं कर्तुं असमर्था एव अस्ति।

सः लिखितवान् “अस्मिन् अवैधजलविक्रयकारिणां गिरौ ‘बाबूसोना’ इति नामकः एकः पुरुषः सम्मिलितः इति नाम प्रकाशं गतम् अस्ति। आरोपः अस्ति यत् अस्य ‘बाबूसोनायाः’ ममता बनर्जीमहाभागायाः मन्त्रिमण्डलस्य एकस्य प्रमुखमन्त्रिणः अनुग्रहः प्राप्तः अस्ति। स एव मन्त्री तस्मिन् दिने लियोनेल मेसीस्य समीपे विचरन् दृष्टः आसीत्। पुनः पुनः तं बलात् आलिङ्गितुं अनिच्छिताः छायाचित्राणि ग्रहीतुं च प्रयासाः कृताः।”

अग्रे सः लिखितवान् “सीसीटीवीयन्त्रेण गृहीतैः छायाचित्रैः अस्यैव बाबूसोनायाः परिचयः जातः, यः वेस्ट् बंगाल् स्टेट् पावर् डिस्ट्रीब्यूशन् कम्पनी लिमिटेड् इत्यस्य बैठके मन्त्रिणः समीपे उपविष्टः दृष्टः आसीत्। मन्त्रिणः कार्यालये गृहे च तस्मै विशेषसुविधाः दत्ताः सन्ति।”

अन्ते सः अवदत् यत् पुलिस् सर्वेषां समक्षं सत्यं प्रकाशयेत् तथा च कथयेत् यत् अयं ‘बाबूसोना’ वास्तवतः कः इति।

---------------

हिन्दुस्थान समाचार