Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 16 दिसंबरमासः (हि.स.)।
मङ्गलवासरे भल्ला क्रिकेट क्रीडाङ्गणे १४तमा प्रादेशिकी जनपदीयवाहिनी-पुलिस क्रिकेट प्रतियोगिता २०२५ आरब्धा। एषा चतुर्दिवसीया प्रतियोगिता अद्य आरभ्य १९ दिसम्बरपर्यन्तं प्रवर्तिष्यते। अद्य मुख्यातिथिरूपेण एसडीआरएफ पुलिस महानिरीक्षक निवेदिता कुकरेती महोदया प्रतियोगितायाः औपचारिकं उद्घाटनं कृतवती। तदनन्तरं विविधेभ्यः जनपदेभ्यः तथा वाहिनीभ्यः आगताः दलाः पदयात्रां कृत्वा मुख्यातिथये सलामीं दत्तवन्तः।
आयोजनकाले मेजबानदलस्य कप्तानः सर्वान् क्रीडकान् क्रीडाभावना, अनुशासनं सौहार्दं च पालयित्वा प्रतियोगितायां भागग्रहणाय शपथं ग्राहितवान्। अस्मिन् अवसरें पुलिस महानिरीक्षक महोदया अवदत् यत् क्रीडाः न केवलं शारीरिकं मानसिकं च स्वास्थ्यं दृढीकुर्वन्ति, अपि तु दलभावनां, नेतृत्वक्षमतां तथा सकारात्मकप्रतिस्पर्धाभावनां अपि विकासयन्ति। सा सर्वान् क्रीडकान् निष्पक्षया सत्यया च क्रीडाभावनया क्रीडितुं प्रेरयित्वा प्रतियोगितायाः सफलाय आयोजनाय हरिद्वार पुलिसायाः शुभाशयान् प्रादात्।
वरिष्ठः पुलिस-अधीक्षकः हरिद्वार श्री प्रमेंद्र डोबालः मुख्यातिथिना सह सर्वेषां प्रतिभागिनां आयोजनस्य सहभागितायै कृतज्ञतां व्यक्तवान्। प्रदेशस्य विभिन्नेषु जनपदेषु तथा वाहिनीषु स्थितेभ्यः कुलं विंशतिः दलाः अस्यां प्रतियोगितायां सहभागं कुर्वन्ति। प्रतियोगितायाः उद्घाटनक्रीडा मेजबानहरिद्वारदलस्य तथा चमोलीजनपददलस्य मध्ये अभवत्। अस्मिन् अवसरें बहवः पुलिस अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार