राष्ट्रपतिना, प्रधाममत्रिणा अन्यैश्च 1971 तमस्य वर्षस्य ऐतिहासिकजयोत्तरं नायकाः प्रणताः
नव दिल्ली, 16 दिसंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः उपराष्ट्रपतिः प्रधानमन्त्री नरेन्द्रमोदीः केन्द्रीयमन्त्रिणः च विविधराजनीतिकदलानां नेतारः च सन १९७१ तमे युद्धे भारतस्य ऐतिहासिकविजयं साधयितुं भारतीयसशस्त्रबलानां शौर्यं पराक्रमं च परमबलिदा
कारगिल विजय दिवस


नव दिल्ली, 16 दिसंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मुः उपराष्ट्रपतिः प्रधानमन्त्री नरेन्द्रमोदीः केन्द्रीयमन्त्रिणः च विविधराजनीतिकदलानां नेतारः च सन १९७१ तमे युद्धे भारतस्य ऐतिहासिकविजयं साधयितुं भारतीयसशस्त्रबलानां शौर्यं पराक्रमं च परमबलिदानं च सादरं नत्वा स्मरन्ति। तैः नेतृभिः एक्स इति माध्यमे स्वेषु सन्देशेषु उक्तं यत् सन १९७१ तमे विजयेन न केवलं देशस्य सुरक्षा सम्मानं च नूतनां उच्चतां प्राप्तम् अपि तु आगामिनीनां संंततीनां कृते राष्ट्रसेवायाः समर्पणस्य प्रेरणा अपि दत्ता।

राष्ट्रपतिः अवदत् भारतमातुः वीरपुत्रेभ्यः सादरं नमनम्। तेषां साहसं पराक्रमः मातृभूम्यां प्रति अनन्यनिष्ठा च राष्ट्रं सदा गौरवान्वितं कृतवती। सा भारतीयसेनायाः स्वदेशीकरणेन सशक्तीकरणस्य प्रयासान् प्रशंसन्ती अवदत् यत् ऑपरेशन सिन्दूरे सेनया आत्मनिर्भरता सामरिकदृढता आधुनिकयुद्धशैली च प्रभावकरूपेण प्रदर्शिताः। सा सर्वेभ्यः सैनिकेभ्यः तेषां परिवारेभ्यः च शुभाशयान् अयच्छत्।

उपराष्ट्रपतिः अवदत् यत् १६ डिसम्बर १९७१ दिने भारतीयसशस्त्रबलानां शौर्येण पाकिस्तानस्य उपरि निर्णायकविजयः अभवत् यस्य फलस्वरूपेण स्वतन्त्रबांग्लादेशस्य जन्म अभवत् क्षेत्रीयभूराजनीतौ च ऐतिहासिकपरिवर्तनं जातम्। अयं युद्धः न्यायस्वातन्त्र्ययोः प्रति भारतस्य प्रतिबद्धतायाः प्रतीकः अस्ति।

प्रधानमन्त्री नरेन्द्रमोदीः अस्मिन् ऐतिहासिकविजयदिने वीरसैनिकेभ्यः श्रद्धाञ्जलिं समर्पयन् अवदत् यत् तेषां साहसेन बलिदानेन च एव भारतः सन १९७१ तमे ऐतिहासिकविजयं प्राप्तवान्। सैनिकानां अटूटसंकल्पशक्तिः निस्वार्थसेवा च देशस्य रक्षणं कृतवती। अयं दिवसः तेषां अद्वितीयशौर्यं नत्वा स्मर्तुं अवसरः अस्ति यत् पीढीभ्यः प्रेरणां दास्यति।

केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् सन १९७१ तमे भारतीयसुरक्षाबलैः अदम्यसाहसेन सूक्ष्मरणनीत्या च पाकिस्तानीसेना आत्मसमर्पणाय विवशा कृता। एषा विजयः अन्यायअत्याचारयोः विरुद्धं मानवतारक्षणस्य उदाहरणं जातम्। भारतीयसेनानां सैन्यसामर्थ्यं विश्वेन अपि स्वीकृतम्।

केन्द्रीयसडकपरिवहनमार्गमन्त्री नितिनगडकरीः अस्य दिवसस्य शुभाशयान् दत्त्वा राष्ट्रसेवायां समर्पितान् वीरजवानान् ननौ। रक्षामन्त्री राजनाथसिंहः अवदत् यत् सन १९७१ तमे निर्णायकविजये स्थलसेना नौसेना वायुसेना च मध्ये अद्भुतः समन्वयः दृष्टः येन इतिहासस्य दिशा परिवर्तिता। सशस्त्रबलानां पराक्रमः अनुशासनं च अद्यापि राष्ट्रीयसंकल्पं दृढं करोति।

काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखरगेः अवदत् यत् अद्य एव सन १९७१ तमे भारतस्य वीरसशस्त्रसेनाभिः पाकिस्तानः निर्णायकतया पराजितः बांग्लादेशस्य स्वतन्त्रता च प्राप्ता विश्वमानचित्रं च नूतनरूपं प्राप्नोत्। इन्दिरागान्ध्याः दूरदर्शिनः साहसिकस्य दृढस्य च नेतृत्वे एषा विजयः मानवतायाः न्यायस्य च महान् आदर्शः अभवत्।

लोकसभायां विपक्षनेता राहुलगान्धीः अवदत् यत् सन १९७१ तमे युद्धे सीमाः रक्षन्तः भारतीयसशस्त्रबलानां वीराः स्वशौर्येण अटूटसंकल्पेन च इतिहासं अलिखन्। तेषां परमबलिदानं सर्वेषां भारतवासिनां कृते प्रेरणास्रोतः भविष्यति।

केन्द्रीयावासनगरविकासमन्त्री मनोहरलालः अवदत् यत् सन १९७१ तमे अद्य एव दिने ढाकायां भारतीयसेनायाः अदम्यसाहसेन पाकिस्तानीसेना आत्मसमर्पणाय विवशा अभवत्। मातृभूमेः रक्षणार्थं बलिदानं दत्तवतः वीरपुत्रान् सः ननौ।

उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः विजयदिवसं भारतीयशौर्यस्य राष्ट्रभक्तेः च अनुपमप्रतीकं मन्यमानः अवदत् यत् सन १९७१ तमे ऐतिहासिकविजयात् प्रेरितः भारतः सदा अजेयः भविष्यति।

केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अवदत् यत् सन १९७१ तमे भारतीयसैनिकैः स्वशौर्यपराक्रमाभ्यां एषा ऐतिहासिकविजयः सम्भविता। कृतज्ञं राष्ट्रं तेषां त्यागं बलिदानं च कदापि न विस्मरिष्यति।

---------------

हिन्दुस्थान समाचार