मनरेगा योजना समाप्ता तद्विरोधे कांग्रेस नेतारोऽकुर्वन् विरोधप्रदर्शनम्
सहरसा, 17 दिसंबरमासः (हि.स.)। महात्मा गान्धी राष्ट्रियग्रामीणजीविकानुबंधः अधिनियमः (मनरेगा) निरस्तुं येन विधेयकेन प्रयासः क्रियते, तस्य विरोधार्थं नगरस्य मार्गेषु जिलाध्यक्षस्य मुकेशकुमारझा इत्यस्य नेतृत्वे विरोधप्रदर्शनं कृतम्। विरोधं कुर्वन् जिल
प्रदर्शन


सहरसा, 17 दिसंबरमासः (हि.स.)।

महात्मा गान्धी राष्ट्रियग्रामीणजीविकानुबंधः अधिनियमः (मनरेगा) निरस्तुं येन विधेयकेन प्रयासः क्रियते, तस्य विरोधार्थं नगरस्य मार्गेषु जिलाध्यक्षस्य मुकेशकुमारझा इत्यस्य नेतृत्वे विरोधप्रदर्शनं कृतम्। विरोधं कुर्वन् जिलाध्यक्षः मुकेशकुमारझा अवदत् यत् केन्द्रीयसरकारः जनविरोधिनी अस्ति या दरिद्रकृषकानां, श्रमिकानां, बेरोजगाराणां च हिताय प्रवर्तमाने मनरेगा योजनां समाप्तुं षड्यन्त्रं करोति, किन्तु कांग्रेसदलः कदापि एतत् सफलं भवितुं न दास्यति।

सः अवदत् यत् पूर्वप्रधानमन्त्री स्व. मनमोहनसिंहः तथा पूर्वराष्ट्रियाध्यक्षा सोनिया गान्धी च दरिद्रश्रमिकाणां आर्थिकसहायतायै जनहितार्थं, निर्धनजनानां कृते च एषा महत्वपूर्णा योजना प्रवर्तितवती। अद्य तु मोदीसरकारः निर्धनजनैः सह मनरेगायाः विषये अन्यायं कुर्वती अस्ति, यद्यपि एषा एव योजना कोरोना-काले एतेषां निर्धनानां कृते वरदानरूपेण सिद्धा आसीत्। अतः अद्य वयं सर्वे कांग्रेसजनाः मार्गेषु अवतीर्य विरोधं कुर्मः इति सः उक्तवान्।

अद्यतनप्रदर्शने वरिष्ठोपाध्यक्षः कुमारहीराप्रभाकरः, प्रदेशप्रतिनिधिः मो. नईमुद्दीनः, इण्टकाध्यक्षः सत्यानारायणचौपालः, इण्टकमहिलाध्यक्ष्या आशादेवी, पूर्वप्रदेशयुवासंयोजकः मनीषकुमारः, नगराध्यक्षः बीरेन्द्रपासवानः, भरतनारायणझा, दिवाकान्तगिरिः, सूरजझा, कार्यालयसचिवः बैद्यनाथझा, उदययादवः, अमितपाण्डेयः, विजयकुमारः, पप्पुकुमारः, हिमांशुकश्यपः, माहेश्वरीशर्मा, अजययादवः, रमेशयादवः, राजेशझा, वरुणझा, उमेशपासवानः इत्यादयः बहवः नेतारः कार्यकर्तारश्च सहभागं कृतवन्तः।

हिन्दुस्थान समाचार