Enter your Email Address to subscribe to our newsletters

१८ दिसम्बर् १९६१ तमे वर्षे भारतीय-सेनया ऐतिहासिकं निर्णयं गृहीत्वा गोवा, दमन तथा दीव-प्रदेशान् पुर्तगाली-शासनात् विमोचितवान्। एषः सैन्य-अभियानः ‘ऑपरेशन-विजय’ इति नाम्ना विख्यातः अभवत्। स्वातन्त्र्योत्तरकाले चतुर्दश-वर्षाणि यावत् भारत-पुर्तगालयोः मध्ये कूटनीतिक-प्रयत्नाः कृताः, तथापि एते प्रदेशाः पुर्तगालस्य आधिपत्ये एव स्थिताः आसन्।
ऑपरेशन-विजयस्य उद्देश्यं सीमित-कालावधौ सशस्त्र-संघर्षस्य माध्यमेन पुर्तगाली-शासनस्य समाप्तिः कृत्वा एते प्रदेशाः भारतदेशे समावेशनं कर्तुं आसीत्। अस्मिन् अभियाने भारतीय-सेना, नौ-सेना तथा वायु-सेना संयुक्तरूपेण भागं गृहीतवन्तः। शीघ्रता, यथार्थ-रणनीति तथा सैन्य-कौशलस्य कारणेन पुर्तगाली-सैनिकाः शीघ्रमेव आत्मसमर्पणं कृतवन्तः। तस्य फलस्वरूपं प्रायः चतुःशताधिक-पञ्चाशत्-वर्षपर्यन्तं पुर्तगाली-उपनिवेशत्वेन स्थिताः एते प्रदेशाः स्वातन्त्र्यस्य समीपं प्राप्तवन्तः।
एषा विजयः न केवलं भारतस्य क्षेत्रीय-अखण्डतां सुनिश्चितवती, अपि तु राष्ट्रस्य संप्रभुत्वं गौरवं च सुदृढीकृतवती। ऑपरेशन-विजयानन्तरं गोवा, दमन तथा दीव भारतीय-संविधानस्य अधीनं समाविष्टाः, यत्र गोवा पूर्ण-राज्यरूपेण तथा दमन-दीव केन्द्रशासित-प्रदेशरूपेण स्थापितौ। एषः दिवसः भारतीय-इतिहासे राष्ट्रीय-एकतायाः, साहसस्य च प्रतीकः जातः। अद्यापि १९ दिसम्बरः ‘गोवा-मुक्ति-दिवसः’ इति रूपेण आचर्यते, यः ऑपरेशन-विजयस्य बलिदानानां तथा सैन्य-निपुणतायाः स्मरणस्य अवसरं ददाति।
महत्त्वपूर्णः घटनाचक्रः
१२७१ — मंगोल-शासकः कुबलई-खानः स्वस्य साम्राज्यस्य नाम ‘युआन्’ इति कृतवान्; अनेन मंगोलिया-चीनयोः युआन्-वंशस्य आरम्भः अभवत्।
१३९८ — तैमूरः सुल्तानं नुसरत-शाहं पराजित्य दिल्ल्यां अधिकारं कृतवान्।
१६४२ — समुद्र-अन्वेषकः तस्मानः अद्य न्यूजीलैण्ड-देशस्य भूमौ अवतीर्णः; तस्य नाम्ना तस्मान-समुद्रः अभिहितः।
१७८७ — न्यू-जर्सी अमेरिका-संविधानं स्वीकरोत्, तृतीयं राज्यं जातम्।
१८३३ — रूसस्य राष्ट्रिय-गीतं ‘गॉड् सेव् द जार्’ प्रथमवारं गीयते स्म।
१८६५ — अमेरिका-संविधाने त्रयोदश-संशोधनस्य स्वीकरणेन दास-प्रथा समाप्ता।
१८७८ — अल्-थानी-परिवारः कतर-देशस्य प्रथमः शासक-परिवारः अभवत्।
१९५६ — जापानः संयुक्त-राष्ट्र-संघस्य अष्टितमः सदस्यः जातः।
१९६० — नवी-दिल्ली-नगरे राष्ट्रिय-संग्रहालयस्य उद्घाटनम्।
१९६१ — भारतीय-सेनया गोवा, दमन तथा दीव पुर्तगाली-शासनात् विमोचिताः — ‘ऑपरेशन-विजय’।
१९६९ — इंग्लैण्ड-देशे मृत्युदण्डस्य समाप्तिः।
१९७३ — इस्लामिक-डेवलपमेंट्-बैङ्कस्य स्थापना।
१९८९ — सचिन-तेन्दुलकरः पाकिस्तान-विरुद्धं प्रथमं एकदिवसीय-क्रिकेट्-क्रीडां कृतवान्।
१९९० — संयुक्त-राष्ट्रेण प्रवासी-श्रमिकानां अधिकार-संरक्षण-संविधानस्य स्वीकरणम्; एतेन १८ दिसम्बरः अन्तरराष्ट्रिय-प्रवासी-दिवसः अभवत्।
१९९५ — पश्चिम-बङ्गालस्य पुरुलिया-प्रदेशे अज्ञात-विमानेन शस्त्र-सञ्चयस्य पातनम्।
१९९७ — भारत-अमेरिकयोः अन्तरिक्ष-अनुसन्धान-सहयोग-वाशिङ्गटन-सन्धिः सम्पन्ना।
१९९९ — श्रीलङ्काया राष्ट्रपतिः चन्द्रिका-कुमारतुंगाया उपरि आक्रमणे २५ जनाः मृताः, १०० च आहताः।
२००२ — हेग-स्थितेन अन्तरराष्ट्रीय-न्यायालयेन सिपिदान-लिगितान-द्वीपयोः विषये मलेशिया-अधिकारस्य पुष्टि।
२००५ — भूटान-नरेशः जिग्मे-सिंग्मे-वाङ्गचुकः २००८ तमे वर्षे सिंहासन-त्यागस्य घोषणा कृतवान्।
२००6 — मलेशिया-देशे बाढ्या ११८ जनानां मृत्युः, चतुर्लक्षाधिक-जनाः गृहविहीनाः।
२००७ — जापानेन इंटरसेप्टर्-मिसाइलस्य परीक्षणम्।
२००८ — ब्रह्मोस-सुपरसोनिक्-क्रूज्-मिसाइलस्य सफल-परीक्षणम्।
२०१४ — भारतस्य गुरुतम-रॉकेट् जीएसएलवी-मार्क्–३ सफलतया प्रक्षिप्तः।
२०१७ — राष्ट्रमण्डल-कुश्ती-चैम्पियनशिपे भारतदेशेन ३० मध्ये २९ स्वर्ण-पदकानि प्राप्तानि।
२०१९ — अमेरिकी-प्रतिनिधि-सभया राष्ट्रपतिः डोनाल्ड्-ट्रम्प् विरुद्धं महाभियोगस्य मतदानम्।
जन्म
१७५६ — गुरु-घासीदासः — भारतीय-सन्तः, छत्तीसगढ़स्य धार्मिक-परम्परायां प्रमुखः।
१८७८ — जोसेफ्-स्टालिन् — सोवियत्-नेता।
१८८७ — भिखारी-ठाकुरः — भोजपुरी-लोककलायाः विख्यातः कलाकारः।
१९०९ — वी. वेंकटसुब्बा-रेड्डीयारः — भारतीय-राष्ट्रिय-काङ्ग्रेसस्य राजनीतिज्ञः।
१९२४ — ई. एस्. वेंकटरमैया — भारतस्य भूतपूर्वः उन्नविंशतितमः मुख्य-न्यायाधीशः।
१९८७ — राम-मोहन-नायडू किंजरापुः — भारतीय-राजनीतिज्ञः (आन्ध्र-प्रदेशः)।
निधनम्
१९७१ — पदुमलाल-पुन्नालाल-बख्शी — प्रसिद्धः निबन्धकारः।
१९८० — मुकुटबिहारीलालभार्गवः भारतीयराजनीतिज्ञः, लोकसभासदस्यः।
१९८० — एलेक्सी-कोज़ीगिन् — सोवियत्-संघस्य प्रधानमन्त्री।
२००१ — अमल-कुमार-सरकारः — भारतस्य भूतपूर्वः अष्टमः मुख्य-न्यायाधीशः।
२००४ — विजय-हज़ारे — भारतीयः क्रिकेट्-क्रीडकः।
२००७ — सदानन्द-बकरे — प्रसिद्धः शिल्पकारः, चित्रकारः, मूर्तिकारश्च।
२०११ — अदम-गोंडवी — भारतीयः कविः।
महत्त्वपूर्णाः दिवसाः
राष्ट्रियधातुविज्ञानदिवसः
अन्तरराष्ट्रिय-अल्पसंख्यक-अधिकार-दिवसः
अन्तरराष्ट्रियप्रवासीदिवसः
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani