प्रधानमंत्रिणि नरेन्द्र मोदिनि इथियोपियायाः सर्वोच्च नागरिकसम्मानिते सति धर्मेंद्र प्रधानेन प्रकटिता प्रसन्नता
भुवनेश्वरम्, 17 दिसंबरमासः (हि.स.)। केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्र-प्रधानः इथियोपिया-देशेन प्रधानमन्त्रिणे नरेन्द्र-मोदिने प्रदत्ते सर्वोच्चे नागरिक-सम्माने “द ग्रेट् ऑनर् निशान् ऑफ् इथियोपिया” इत्यस्मिन् विषये हर्षं प्रकटितवान्। सः स्वस्य सा
प्रधानमंत्रिणि नरेन्द्र मोदिनि इथियोपियायाः सर्वोच्च नागरिकसम्मानिते सति धर्मेंद्र प्रधानेन प्रकटिता प्रसन्नता


भुवनेश्वरम्, 17 दिसंबरमासः (हि.स.)।

केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्र-प्रधानः इथियोपिया-देशेन प्रधानमन्त्रिणे नरेन्द्र-मोदिने प्रदत्ते सर्वोच्चे नागरिक-सम्माने “द ग्रेट् ऑनर् निशान् ऑफ् इथियोपिया” इत्यस्मिन् विषये हर्षं प्रकटितवान्। सः स्वस्य सामाजिक-माध्यमे प्रकाशिते सन्देशे एतत् प्रत्येकस्य भारतीयस्य कृते गौरवपूर्णं क्षणम् इति उक्तवान्। तेन अवदत् यत् प्रधानमन्त्रिणा प्राप्तं एतत् अष्टाविंशतितमं (२८ तमं) अन्तरराष्ट्रीय-सम्मानं भारतस्य सशक्त-विदेश-नीतेः विश्वसनीय-नेतृत्वस्य च वर्धमानस्य वैश्विक-प्रभावस्य प्रतीकं वर्तते।

धर्मेन्द्र-प्रधानः अपि अवदत् यत् प्रधानमन्त्री मोदी-महोदयेन एषः प्रतिष्ठितः सम्मानः देशस्य चतुर्दश-कोटि-नागरिकेभ्यः समर्पितः यः भारतस्य सामूहिक-उपलब्धिं प्रदर्शयति। सः प्रधानमन्त्रिणं अस्मिन् सम्माने हार्दिकाभिनन्दनं दत्त्वा अवदत् यत् तेषां नेतृत्वं भारतं निरन्तरं नूतन-शिखराणां दिशि अग्रसरं करोति।

---------------

हिन्दुस्थान समाचार