ऑस्कर–२०२६ पुरस्कारार्थं भारतीयचलच्चित्रं ‘होमबाउंड्’ संक्षिप्तसूच्यां समाविष्टम्।
फिल्मनिर्माता करण-जौहरस्य ‘धर्मा प्रोडक्शन्स्’ नाम्ना निर्माणसंस्थाया बैनर-अन्तर्गत निर्मिता ‘होमबाउंड्’ इति चलचित्रं ऑस्कर–२०२६ पुरस्कारस्य श्रेष्ठ-अन्ताराष्ट्रिय-चलच्चित्र वर्गे संक्षिप्तसूच्यां (शॉर्टलिस्ट्) समाविष्टम् अस्ति। अस्य चलचित्रस्य नि
ईशान खट्टर - फोटो सोर्स एक्स


फिल्मनिर्माता करण-जौहरस्य ‘धर्मा प्रोडक्शन्स्’ नाम्ना निर्माणसंस्थाया बैनर-अन्तर्गत निर्मिता ‘होमबाउंड्’ इति चलचित्रं ऑस्कर–२०२६ पुरस्कारस्य श्रेष्ठ-अन्ताराष्ट्रिय-चलच्चित्र वर्गे संक्षिप्तसूच्यां (शॉर्टलिस्ट्) समाविष्टम् अस्ति। अस्य चलचित्रस्य निर्देशनं नीरज-घायवान् कृतवान् अस्ति, यस्मिन् ईशान्-खट्टरः, विशाल्-जेठ्वा तथा जान्हवी-कपूरः मुख्यभूमिकासु अभिनयम् अकरोत्।

धर्मा प्रोडक्शन्स् द्वारा हर्ष-व्यक्तिः

अष्टनवतितमे (९८तमे) अकादमी-अवार्ड्स् कृते संक्षिप्तसूच्यां समाविष्टानां चलचित्राणां घोषणा कृता अस्ति। अन्ताराष्ट्रिय-चलच्चित्र-वर्गे ‘होमबाउंड्’ इत्यस्य चयनं स्वयमेव महान् उपलब्धिः मन्यते। अस्मिन् अवसरे धर्मा प्रोडक्शन्स् सामाजिक-माध्यमेषु लेखं प्रकाशितवान्, यत्र उक्तम्—“९८तमे अकादमी-पुरस्कारान्तर्गतं श्रेष्ठ-अन्ताराष्ट्रिय-चलच्चित्र वर्गे ‘होमबाउंड्’ इति चलचित्रं संक्षिप्तसूच्यां समाविष्टम् अस्ति। विश्वभरात् प्राप्तायाः अपारायाः प्रीतयेः तथा समर्थनाय वयं हृदयपूर्वकं कृतज्ञाः स्मः।”

पञ्चदश-देशीय-चलच्चित्रैः सह स्पर्धा

ऑस्कर-संक्षिप्तसूच्यां प्राप्तिः कस्यापि चलचित्रस्य कृते महान् विषयः मन्यते, यतः अत्र तानि एव चलचित्राणि समाविष्टानि भवन्ति, यानि विश्वस्य श्रेष्ठतमासु कलाकृतिषु गणितानि भवन्ति। अधुना ‘होमबाउंड्’ इत्यस्य अस्मिन् वर्गे ब्राजील्, जर्मनी, इराक्, स्पेन्, जापान् इत्यादीनां सहितं कुलं पञ्चदश-देशानां चलचित्रैः सह स्पर्धा भविष्यति। अधुना सर्वेषां दृष्टयः अस्मिन् एव केन्द्रिताः सन्ति—किम् एषा चलचित्रकृतिः अन्तिम-नामांकन-सूच्यां स्थानं प्राप्स्यति वा न वा।

‘होमबाउंड्’ इत्यस्य कथावस्तु

चलचित्रस्य कथावस्तु द्वयोः मित्रयोः—शेखरः (ईशान्-खट्टरः) तथा चन्दनकुमारः (विशाल्-जेठ्वा)—इत्येतयोः जीवनस्य परितः परिभ्रमति। एषा कथा भारतदेशे जातीय-धार्मिक-भेदभावस्य यथार्थतां प्रकाशयति तथा दर्शयति यत् कथं द्वौ मित्रौ एतेषु परिस्थितिषु संघर्षं कुर्वन्तौ स्वजीवनं सुस्थिरं कर्तुं प्रयतन्ते। कथायां सुधा-भारती (जान्हवी-कपूरः) इत्यस्याः पात्रं आशायाः प्रकाशस्य च प्रतीकरूपेण उद्भवति। चलचित्रस्य अन्त्यभागे (क्लाइमैक्से) लॉकडाउन-काले प्रवासी-श्रमिकाणां पलायनम् इति अत्यन्तं संवेदनशीलः विषयः अपि स्पृष्टः अस्ति। अस्य चलचित्रस्य निर्देशनं नीरज-घायवान् कृतवान्, निर्माता तु करण-जौहरः अस्ति।

कान्स् तथा टीआईएफएफ् मध्ये अपि प्रशंसा ‘होमबाउंड्’ इति चलचित्रं पूर्वमेव अन्ताराष्ट्रिय-मञ्चेषु स्वकीयं प्रभावं स्थापितवत् अस्ति। कान्स् चलचित्र-महोत्सवे अस्य उत्कृष्टा प्रतिक्रिया प्राप्ता आसीत्। तदनन्तरं टोरंटो-अन्ताराष्ट्रिय-चलच्चित्र-महोत्सवे २०२५ अपि अस्य व्यापकं प्रशंसनं जातम्, यत्र एषा पीपल्स् चॉइस् अवार्ड्स् मध्ये द्वितीय-उपविजेता अभवत्। अधुना ऑस्कर-संक्षिप्तसूच्यां स्थानप्राप्त्या सह ‘होमबाउंड्’ भारतस्य कृते एकं नूतनं ऐतिहासिकं क्षणं सृजितुं अग्रसरं दृश्यते।-------------

हिन्दुस्थान समाचार / अंशु गुप्ता