अधुना ‘रोमियो’ इत्यभिधेयमुदग्रविमानं समुद्रे एव पाकिस्तान–चीनयोः जलांतगामिनीनां विनाशं करिष्यति।
- नौसेनया गोवा-स्थिते आईएनएस् हंसा-नौसैनिक-वायुसैनिक-आधारे सीहॉक् हेलीकॉप्टरस्य एमएच–६०आर् इत्यस्य द्वितीया स्क्वाड्रन् आरब्धा। नवदेहली, 17 दिसंबरमासः (हि.स.)। अधुना पाकिस्तान–चीनयोः जलांतगामिनीनाम् अन्वेषणं कृत्वा समुद्रमध्ये एव तेषां विनाशः भारत
एमएच-60आर 'रोमियो' हेलीकॉप्टर


- नौसेनया गोवा-स्थिते आईएनएस् हंसा-नौसैनिक-वायुसैनिक-आधारे सीहॉक् हेलीकॉप्टरस्य एमएच–६०आर् इत्यस्य द्वितीया स्क्वाड्रन् आरब्धा।

नवदेहली, 17 दिसंबरमासः (हि.स.)। अधुना पाकिस्तान–चीनयोः जलांतगामिनीनाम् अन्वेषणं कृत्वा समुद्रमध्ये एव तेषां विनाशः भारताय सुलभो जातः। कारणं यत् भारतीय-नौसेनया बुधवासरे गोवा-स्थिते आईएनएस् हंसा-नौसैनिक-वायुसैनिक-आधारे एमएच–६०आर ‘रोमियो’ सीहॉक्-हेलीकॉप्टरस्य द्वितीया स्क्वाड्रन् आरब्धा अस्ति। नौसेनाप्रमुखस्य एडमिरल् दिनेश-के-त्रिपाठीस्य उपस्थितौ आईएनएएस् ३३५ इत्यस्य कमीशनिङ्ग् भारतीय-नौसेनायाः आधुनिकीकरणस्य तथा समुद्री-क्षमता-वृद्धेः निरन्तर-प्रयत्नेषु एकं महत्त्वपूर्णं चरणं अस्ति। एतेन भारत-प्रशान्त-क्षेत्रे भारतस्य समुद्री-युद्धक-क्षमता अधिकं सुदृढा भविष्यति।

नौसेनाप्रमुखः एडमिरल् त्रिपाठीः अद्य अमेरिकी-निर्मितस्य एमएच–६०आर सीहॉक् बहुउद्देश्यीय-हेलीकॉप्टरस्य द्वितीयां स्क्वाड्रन् गोवा-स्थिते आईएनएस् हंसा-आधारे उद्घाटितवान्। एषा स्क्वाड्रन् आईएनएएस् ३३५ इति नाम्ना विख्याता भविष्यति, यदा गतवर्षस्य मार्च्-मासे आरब्धा प्रथमा स्क्वाड्रन् आईएनएएस् ३३४ इति रूपेण औपचारिकतया वायुदले सम्मिलिता आसीत्।

‘रोमियो’ हेलीकॉप्टरस्य द्वितीयायां स्क्वाड्रणे सम्मिलिताः एते अत्याधुनिकाः हेलीकॉप्टराः पनडुब्बी-रोधी-युद्धे, क्षेपणास्त्र-आक्रमणे, निरीक्षणे च सक्षमाः सन्ति। अमेरिकी-निर्मितः बहुउद्देश्यीयः समुद्री-हेलीकॉप्टरः एमएच–६०आर पनडुब्बी-रोधी-युद्धाय, सतह-रोधी-युद्धाय, अन्वेषण-उद्धारणाय, चिकित्सीय-निष्कासनाय च विशेषरूपेण अभिकल्पितः अस्ति। रक्षा-मन्त्रालयस्य अनुसारं गोवा-स्थिते आईएनएस् हंसा-आधारे एमएच–६०आर हेलीकॉप्टरस्य द्वितीयायाः स्क्वाड्रणस्य (आईएनएएस् ३३५) आरम्भेन भारतस्य समुद्री-क्षमताः वर्धिष्यन्ति, तथा हिन्द-महासागर-क्षेत्रे (आईओआर) भारतीय-नौसेनायाः समुद्री-उपस्थिति अपि अधिकं सुदृढा भविष्यति। उन्नतैः शस्त्रैः, सेन्सरैः तथा एवियोनिक्स्-सूट्-युक्तः सीहॉक् हेलीकॉप्टरः भारतीय-नौसेनायाः समुद्री-सुरक्षा-आवश्यकतानां दृष्ट्या विशेषतया निर्मितः अस्ति। अत्याधुनिक-कार्य-सक्षम-प्लेटफार्माणां समावेशेन भारतीय-नौसेनायाः विविधा एएसडब्ल्यू (पनडुब्बी-रोधी) क्षमताः अत्यधिकं वर्धिष्यन्ति।

अस्मिन् हेलीकॉप्टरे नाइट्-विजन-उपकरणानि, हेलिफायर्-क्षेपणास्त्राणि, एमके–५४ टॉरपीडो, रॉकेट्-शस्त्राणि च स्थापितानि सन्ति। रोमियो-हेलीकॉप्टरस्थाः राडाराः तथा सेन्सराः न केवलं जलान्तर्गतम् अपि तु पनडुब्बीनां समये एव पहचानं कृत्वा तेषां विनाशं कर्तुं समर्थाः सन्ति। अस्मिन् हेलीकॉप्टरे शस्त्र-स्थापनार्थं चत्वारः प्वाइण्ट्-स्थलानि दत्तानि सन्ति, अतः अनेकेषु प्रकारेषु शस्त्रेषु सुसज्जितं कर्तुं शक्यते। आत्मरक्षार्थं ७.६२ मि.मी. यन्त्र-गनस्य स्थापनायाः अपि व्यवस्था अस्ति। एतत् वायानं फ्लीट्-ऑपरेशन्स्-सहितं पूर्णतया एकीकृतं अस्ति तथा अनेकेषु अवसरॆषु स्वस्य सामर्थ्यं सिद्धं कृतवान्। भारतीय-नौसेनया अमेरिकी-कम्पनी लॉकहीड्-मार्टिन् इत्यस्मात् २.६ अब्ज्-डॉलर्-मूल्ये २४ हेलीकॉप्टराः क्रयीकृताः सन्ति। २०२० तमे वर्षे अमेरिकात् क्रयीकृतानां २४ एमएच–६०आर हेलीकॉप्टराणां मध्ये इदानीं द्वितीया पूर्णा स्क्वाड्रन् सज्जा जाता अस्ति। गत-मासे २८ नवम्बर् दिनाङ्के भारतदेशेन एमएच–६०आर हेलीकॉप्टराणां मरम्मत्, परीक्षणम् तथा अनुरक्षण-सुविधाः देशे एव प्रदातुं पञ्च-वर्षीय-अवधये अमेरिकी-कम्पन्या सह समझौता अपि कृतः। रक्षा-सचिवस्य राजेश-कुमार-सिंहस्य उपस्थितौ अमेरिकी-सर्वकारेण सह कृतस्य अस्य करारस्य मूल्यं प्रायः ७,९९५ कोटि-रूप्यकाणि अस्ति।

मन्त्रालयस्य कथनानुसारं अमेरिका-सह एषः करारः नौसेनायाः ऑपरेशनल्-उपलब्धता, क्षमता-निर्माणं तथा आत्मनिर्भर-भारत-अभियानं च प्रोत्साहयिष्यति। अमेरिकी-प्रौद्योगिकी-सहयोगेन सर्व-ऋतु-कार्य-सक्षमाः एमएच–६०आर हेलीकॉप्टराः अधिकं प्रभावीरूपेण परिचालिताः भविष्यन्ति, येषु जलांतगामिनी-रोधी-युद्ध-क्षमताः अपि अन्तर्भूताः सन्ति। तदतिरिक्तं एषः सहयोगः एतेषामुदग्रविमानानां विभिन्न-स्थानैः सह तथा नौकाभ्यः अपि संचालनं सुलभं करिष्यति, येन तेषां समस्तेषु प्राथमिक-गौण-कर्तव्येषु सर्वोत्तमं प्रदर्शनं सुनिश्चितं भविष्यति।----------

हिन्दुस्थान समाचार / Dheeraj Maithani