बीआईटी मेसरायां त्रिदिवसीयम् अंताराष्ट्रियं सम्मेलनं शुभारब्धम्
रांची, 17 दिसंबरमासः (हि.स.)। बिरलाप्रौद्योगिकीसंस्थाने (बीआईटी) मेसरानगरे जटिलप्रणालीनां सिमुलेशनस्य कला विज्ञानं च इति विषयकः त्रिदिवसीयम् अन्ताराष्ट्रियं सम्मेलनं बुधवासरे शुभारम्भितः। अयं सम्मेलनः सप्तदशात् उन्नविंशत् दिसम्बरपर्यन्तं आयोजितः
कार्यक्रम में मुख्य अतिथि एपी दिमरी सहित अन्य


रांची, 17 दिसंबरमासः (हि.स.)।

बिरलाप्रौद्योगिकीसंस्थाने (बीआईटी) मेसरानगरे जटिलप्रणालीनां सिमुलेशनस्य कला विज्ञानं च इति विषयकः त्रिदिवसीयम् अन्ताराष्ट्रियं सम्मेलनं बुधवासरे शुभारम्भितः। अयं सम्मेलनः सप्तदशात् उन्नविंशत् दिसम्बरपर्यन्तं आयोजितः अस्ति, यस्मिन् देशविदेशेभ्यः आगताः वैज्ञानिकाः शिक्षाविदः शोधकर्तारः च सहभागं कुर्वन्ति।

सम्मेलनस्य उद्घाटनं बीआईटी मेसराया कुलपतिः प्रो इन्द्रनीलमन्ना कृतवान्। अस्मिन् अवसरॆ सः अवदत् यत् विज्ञानस्य अभियांत्रिकीस्य च विविधेषु क्षेत्रेषु जटिलसमस्यानां समाधानाय सिमुलेशन तथा मॉडलिङ्ग् तन्त्राणि अद्य अत्यन्तं महत्त्वपूर्णानि अभवन्। सः नवयुवकशोधकर्तॄन् अन्तर्विषयकं अनुसन्धानं स्वीकर्तुं नवाचाराय च प्रेरितवान्।

सम्मेलनस्य मुख्यातिथिः प्रो ए पी दिमरी जलवायुविज्ञानादिषु अन्येषु क्षेत्रेषु सिमुलेशनतन्त्राणां भूमिकां प्रकाशयन् अवदत् यत् वैश्विकस्तरीयचुनौतिभ्यः प्रतिकारार्थं सहयोगात्मकं बहुविषयकं अनुसन्धानं अत्यावश्यकं वर्तते। वक्तारः सम्मेलनकाले आमन्त्रितव्याख्यानैः तकनीकीसत्रैः शोधपत्रप्रस्तुतिभिः च वैज्ञानिकानुसन्धानाय अकादमिकसंवादाय च नूतनां दिशां प्राप्स्यते इति आशां व्यक्तवन्तः।

उद्घाटनसत्रस्य अध्यक्षतां भौतिकीविभागस्य विभागाध्यक्षः डॉ राजीवकुमारः अकरोत्। अस्मिन् अवसरे विशिष्टातिथिः डॉ राजेशकुमारमालः तथा प्रो राजीवभाटला सहिताः अन्ये बहवः गणमान्याः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार