स्वीकृत कार्यं नूतनतया शुभारम्भनाम्ना उद्घाटनसमारोहस्य आयोजनं भ्रामकम् : सरयूः
पूर्वी सिंहभूमः, 17 दिसंबरमासः (हि.स.)। विधायकः सरयूरायः चतुर्लेनमार्गस्य तथा स्वर्णरेखानद्यां सेतुनिर्माणकार्यस्य उद्घाटनसमारोहं प्रति आपत्तिं पञ्जीकुर्वन् पथनिर्माणविभागस्य अभियन्तॄणां संवेदकस्य च भूमिकायां प्रश्नान् उत्थापितवान्। सः बुधवासरे प्र
निर्माण


पूर्वी सिंहभूमः, 17 दिसंबरमासः (हि.स.)। विधायकः सरयूरायः चतुर्लेनमार्गस्य तथा स्वर्णरेखानद्यां सेतुनिर्माणकार्यस्य उद्घाटनसमारोहं प्रति आपत्तिं पञ्जीकुर्वन् पथनिर्माणविभागस्य अभियन्तॄणां संवेदकस्य च भूमिकायां प्रश्नान् उत्थापितवान्। सः बुधवासरे प्रेसविज्ञप्तिं प्रसार्य अवदत् यत् पूर्वमेव स्वीकृतं प्रगतिशीलं च कार्यं पुनः नूतनतया आरभ्यते इति नाम्ना उद्घाटनसमारोहस्य आयोजनं भ्रामकं वर्तते, अनेन च विकासकार्ये राजनैतिकवर्णं दातुं प्रयत्नः कृतः।

सरयूरायः अवदत् यत् सः विधानसभासमितेः राज्यभ्रमणकार्यक्रमस्य अन्तर्गतं गोड्डाजिलायां आसीत्। तस्मिन्नेव काले सामाजिकमाध्यमैः तस्मै सूचना प्राप्ता यत् लिट्टीचौकात् एनएच त्रयस्त्रिंशत् भिलाईपर्वतं योजयन्त्या चतुर्लेनसडकस्य तथा स्वर्णरेखानद्यां सेतोः तदनुगामिपथस्य च निर्माणकार्यस्य उद्घाटनसमारोहः जमशेदपुरपूर्वीयविधायिकायाः उपस्थितौ आयोजितः अभवत्। सः अवदत् यत् यस्या रीत्या एषः कार्यक्रमः प्रस्तुतः, तया एवं प्रतीतं भवति यत् मुख्यमन्त्रिणा ऑनलाइन शिलान्यासानन्तरं कार्यं स्थगितम् आसीत्, अधुना तु विभागीयाभियन्तॄणां उपस्थितौ पुनः आरब्धं, किन्तु वास्तविकस्थितिः एतस्मात् भिन्ना अस्ति।

विधायकः सरयूरायः स्पष्टतया अवदत् यत् अस्याः परियोजनायाः शिलान्यासानन्तरं सेतुनिर्माणं तथा तदनुगामिपथनिर्माणकार्यं पूर्वमेव आरब्धम् आसीत्। निर्माणकाले सेतोः रूपरेखायां गम्भीरा तकनीकीदोषाः प्रकाशं आगताः। विशेषतया माङ्गोसीम्नि सेतोः अन्तिमः पादः निर्धारितस्थाने न आसीत्, यस्य कारणात् तत्क्षणमेव सेतुनिर्माणकार्यं स्थगितं कृत्वा रूपरेखायां संशोधनं कारितम्।

---------------

हिन्दुस्थान समाचार