भारतस्य इथोपियया सह द्विसहस्रवर्षपर्यन्तं प्राचीनं सम्बन्धः अस्ति - मोदी
अदीस अबाबा, 17 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः उक्तवान् यत् भारतस्य इथियोपियया सह द्विसहस्रवर्षपर्यन्तं प्राचीनः सम्बन्धः अस्ति। उभयदेशयोः द्विपक्षीयसम्बन्धान् रणनीतिक-सहभागिता-स्तरं नेतुं निर्णयः कृतः अस्ति। प्रधानमन्त्री नरेन्द्रम
इथोपिया की संसद को संबोधित करते प्रधानमंत्री


अदीस अबाबा, 17 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः उक्तवान् यत् भारतस्य इथियोपियया सह द्विसहस्रवर्षपर्यन्तं प्राचीनः सम्बन्धः अस्ति। उभयदेशयोः द्विपक्षीयसम्बन्धान् रणनीतिक-सहभागिता-स्तरं नेतुं निर्णयः कृतः अस्ति। प्रधानमन्त्री नरेन्द्रमोदीः स्वस्य त्रिदेशीय-यात्रायाः द्वितीयचरणे इथियोपियां गतः अस्ति। बुधवारे प्रधानमन्त्री मोदीः इथियोपिया-संसदः संयुक्तसत्रं सम्बोधितवान्। तत्र सः उक्तवान् यत् भारतस्य इथियोपियया सह जलवायौ भावनायां च उष्णता अस्ति। सः अवदत्— “भारतीय-कम्पन्यः इथियोपियायां महत्तमेषु निवेशकेषु सन्ति। ताभिः विभिन्नेषु क्षेत्रेषु पञ्च-बिलियन-डॉलर-अधिकं निवेशः कृतः अस्ति। पञ्चसप्ततिसहस्राधिकानि रोजगार-अवसराणि सृजितानि सन्ति। भारत–इथियोपिया-द्विपक्षीय-सम्बन्धान् रणनीतिक-सहभागिता-स्तरं नेतुं वयं निर्णयं कृतवन्तः।”

प्रधानमन्त्री मोदीः वैश्विक-दक्षिणस्य उदयस्य उल्लेखं कृत्वा विश्वं प्रति सन्देशं दत्तवान् यत् अतीते अटिताः व्यवस्थाः अग्रे गन्तुं न शक्नुवन्ति। सः इथियोपियाम् क्षेत्रीय-शान्ति-सुरक्षा-सम्पर्क-क्षेत्रेषु स्वाभाविकं मित्रं इति अवदत्।

प्रधानमन्त्री मोदी भारतं च इथियोपियां च क्षेत्रीयशान्तिसुरक्षासम्पर्कक्षेत्रेषु स्वाभाविकमित्रे इति निरूपितवान्। सः उक्तवान् यत् इथियोपियायां आफ्रिकां प्रति गमनमार्गः अस्ति, तथा भारतः हिन्द-महासागरस्य मध्ये स्थितः अस्ति। स्वभाषणे सः विशेषतया एतदपि अवदत् यत् भारतस्य इथियोपियायाश्च राष्ट्रगीतयोः भूमिः माता-रूपेण दृष्टा अस्ति। इथियोपियातः “ग्रेट् ओनर् निशान् ऑफ् इथियोपिया” इति सर्वोच्च-नागरिक-सम्मान-प्राप्त्यर्थं सः कृतज्ञतां व्यक्तवान्।

प्रधानमन्त्री मोदीः उल्लेखं कृतवान् यत् गत-एकादश-वर्षेषु भारत अफ्रिकासम्बन्धेषु बहुगुणा प्रगतिः जाता अस्ति। भारतस्य डिजिटल-सार्वजनिक-आधारसंरचना सेवाः जनानां पर्यन्तं नयितुं पद्धतिं पूर्णतया परिवर्तितवती अस्ति। भारतः पञ्चाशदधिकेभ्यः शतेभ्यः देशेभ्यः औषधानि टीकाः च प्रेषितवान् अस्ति। अस्माकं गर्वविषयः अस्ति यत् वयं इथियोपियायै अपि चत्वारिलक्ष-टीका-मात्राः उपलब्धाः कृतवन्तः। प्रधानमन्त्री मोदीः उक्तवान् यत् अदीस् तथा धोलेरा इत्येतौ बन्दरगाहौ केवलं व्यापार-केन्द्रे न आसताम्, अपि तु सभ्यतयोः मध्ये सेतुरूपेण आसताम्। आधुनिककाले अस्माकं सम्बन्धाः नूतन-युगे प्रविष्टाः, यदा १९४१ तमे वर्षे भारतीय-सैनिकाः इथियोपियायाः स्वातन्त्र्यार्थं इथियोपियाई-जनैः सह संयुक्तरूपेण युद्धं कृतवन्तः।

प्रधानमन्त्री मोदी अवदत्— “अस्मिन् भव्ये भवने भवतः विधानानि निर्मीयन्ते। अत्रैव जनानां सम्मतिः राज्यस्य इच्छारूपेण परिणमति, यदा राज्यस्य इच्छा जनसम्मत्या सह एकीभवति, तदा परियोजनानां चक्रं अग्रे वर्धते।” स्वभाषण-समाप्त्यनन्तरं प्रधानमन्त्री मोदी इथियोपियाई-सांसदैः सह अपि मिलितवान्।-------------

हिन्दुस्थान समाचार / अंशु गुप्ता