2026 तमस्य वर्षस्य अंतं यावत् आदेशे टोल भुक्तेः नूतनव्यवस्थाः गडकरी
नव दिल्ली, 17 दिसंबरमासः (हि.स.)। सड़क परिवहन एवं राजमार्ग मंत्री नितिन गडकरीः बुधवासरे संसदि अवदत् यत् टोल भुगतानस्य नवीना प्रणाली “मल्टीलैन फ्री फ्लो” वर्ष २०२६स्य अन्ते देशव्यापि राष्ट्रियराजमार्गेषु प्रवर्तयिष्यते। अस्य प्रवर्तनानन्तरं टोल ना
केंद्रीय मंत्री नितिन गडकरी बुधवार को राज्यसभा में प्रश्नकाल के दौरान


नव दिल्ली, 17 दिसंबरमासः (हि.स.)।

सड़क परिवहन एवं राजमार्ग मंत्री नितिन गडकरीः बुधवासरे संसदि अवदत् यत् टोल भुगतानस्य नवीना प्रणाली “मल्टीलैन फ्री फ्लो” वर्ष २०२६स्य अन्ते देशव्यापि राष्ट्रियराजमार्गेषु प्रवर्तयिष्यते। अस्य प्रवर्तनानन्तरं टोल नाकेषु वाहनानि अष्टाशीतिः किलोमीटर प्रति होरा वेगेन निरवरोधं गन्तुं शक्नुवन्ति।

राज्यसभायां प्रश्नकालसमये झारखण्डराज्यस्य भाजपासांसद आदित्यप्रसादस्य प्रश्नस्य उत्तरं दत्त्वा गडकरीः अवदत् यत् अस्यां प्रणालीयां टोल नाकेषु कर्मचारिणां आवश्यकता न भविष्यति। कैमरेभ्यः वाहनसंख्याया अभिज्ञानं भविष्यति, उपग्रहस्य माध्यमेन सूचना केंद्रीकृतां प्रणालीं प्राप्स्यति, तथा च सम्बन्धितबैंकखातात् स्वयमेव टोलराशिः कटयिष्यते। एतेन इन्धनस्य संरक्षणं भविष्यति, यातायातश्च सुगमः भविष्यति।

सः अवदत् यत् अस्याः प्रणालीयाः माध्यमेन प्रायः पञ्चदशशतं कोटिरूप्यकाणां इन्धनस्य बचतिः भविष्यति, तथा च राष्ट्रीय राजमार्ग प्राधिकरणस्य आयः न्यूनातिन्यूनं षट्सहस्रं कोटिरूप्यकाणां वर्धिष्यते। गडकरीः अवदत् यत् केषुचित् स्थलेषु एषा प्रणाली पूर्वमेव प्रवर्तिता अस्ति। अद्यावधि दश ठेकाः आवंटिताः सन्ति, दश ठेकानां प्रक्रिया च प्रवर्तते। आगामिवर्षस्य अन्ते एषा प्रणाली सम्पूर्णे देशे प्रवर्तिता भविष्यति।

एकस्य पूरकप्रश्नस्य उत्तरं दत्त्वा गडकरीः यमुनाएक्सप्रेसवे इत्यत्र अलीकाले जातस्य दुर्घटनायाः उल्लेखं कृत्वा अवदत् यत् दुर्घटनायाः एकघण्टानन्तरं एम्बुलेंसस्य आगमनं अत्यन्तं दुःखदं विषयः अस्ति। केन्द्रसर्वकारः राज्यसर्वकाराभ्यः शतं पञ्चाशतं च अत्याधुनिकाम्बुलेंसयानानि दातुं योजनां निर्माति। तेषां संचालनस्य उत्तरदायित्वं राज्यसरकाराणां भविष्यति, तथा च शर्तः एषा भविष्यति यत् दुर्घटनायाः दशमिनिटाभ्यन्तरे एम्बुलेंसः घटनास्थले उपतिष्ठेत्।

मन्त्री अवदत् यत् देशे प्रतिवर्षं प्रायः पञ्चलक्षं मार्गदुर्घटनाः भवन्ति, यासु प्रायः एकलक्षअशीतिसहस्रं जनाः प्राणान् त्यजन्ति। मृतकेषु अष्टादशात् चतुस्त्रिंशत् वर्षपर्यन्तस्य आयुवर्गस्य षट्षष्टिः प्रतिशतं जनाः सन्ति। सः अवदत् यत् मार्ग तथा वाहन अभियन्त्रणस्य सुधारैः, कानूनानां कठोरीकरणेन च अपि, मानवीयव्यवहारः यथा वाहनचालनकाले चलदूरभाषायाः उपयोगः, शिरस्त्राणस्य अभावः, लेननियमभङ्गश्च, अद्यापि महती समस्या एव अस्ति।

गडकरीः अवदत् यत् समये उपचारस्य अभावेन पञ्चाशत्सहस्रं जनानां मृत्यवः भवन्ति। एतत् दृष्ट्वा सरकारेण द्वे योजनाः आरब्धे। प्रथमा, यः कश्चित् आहतं व्यक्तिं चिकित्सालयं नयति, सः “राहवीर” इति घोषितः भविष्यति, तथा च पञ्चविंशतिसहस्ररूप्यकाणां पुरस्कारं प्राप्स्यति। द्वितीया, यस्मिन् चिकित्सालये आहतः नीयते, तत्र न्यूनातिन्यूनं सप्तदिनानि यावत् डेढलक्षरूप्यकपर्यन्तं उपचारव्ययः राष्ट्रीय राजमार्ग प्राधिकरणनिधेः वहनं भविष्यति।

सः अपि अवदत् यत् राज्येभ्यः एम्बुलेंससेवायै भिन्नभिन्नानां आपत्कालीनसङ्ख्यानां स्थाने एकसङ्ख्याव्यवस्था प्रवर्तयितुं निर्दिष्टं कृतम्, येन आपत्काले शीघ्रं सहायता सुनिश्चिता भवेत्।

-----

हिन्दुस्थान समाचार