सिलीगुड़ीं प्राप्नोत् संघ प्रमुख भागवतः
सिलीगुड़ी, 17 दिसंबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवत् त्रिदिवसीयया यात्रया बुधवासरे पश्चिमबङ्गालराज्यस्य सिलीगुडी नगरं प्राप्तवान्। अस्य यात्राकाले सः बहुषु कार्यक्रमेषु सहभागं करिष्यति। संघस्य प्रचारविभागस्य अनुसारं
बागडोगरा हवाई अड्डे से बाहर निकलते संघ प्रमुख मोहन भागवत


सिलीगुड़ी, 17 दिसंबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवत् त्रिदिवसीयया यात्रया बुधवासरे पश्चिमबङ्गालराज्यस्य सिलीगुडी नगरं प्राप्तवान्। अस्य यात्राकाले सः बहुषु कार्यक्रमेषु सहभागं करिष्यति।

संघस्य प्रचारविभागस्य अनुसारं डॉ. भागवत् गुरुवासरे शुक्रवासरे च अत्र आयोजिते युवासम्मेलने तथा विचारविमर्शोपवेशने भागं ग्रहीष्यति। डॉ. भागवत् अद्य अपराह्ने बागडोगरा विमानतले अवतीर्य ततः सडकमार्गेण स्वगन्तव्यस्थलं प्रति प्रस्थितवान्। -----------

हिन्दुस्थान समाचार