राष्ट्रपतिः द्रौपदी-मुर्मु महोदया वेल्लोर-नगरे श्रीपुरम्-स्वर्ण-मन्दिर-परिसरे ध्यानमन्दिरस्य उद्घाटनं कृतवती
वेल्लोरम्, 17 दिसंबरमासः (हि.स.)। आन्ध्र-प्रदेशस्य तिरुपति-नगरात् उदग्रयान-मार्गेण राष्ट्रपतिः वेल्लोर-स्थितं श्रीपुरम्-स्वर्ण-मन्दिरं प्राप्तवती। तस्याः आगमने तमिलनाडु-राज्यस्य राज्यपालः आर्. एन्. रवी, केन्द्रीय-राज्य-मन्त्री एल्. मुरुगन्, तमिलनाड
President  Vellore Golden Temple


वेल्लोरम्, 17 दिसंबरमासः (हि.स.)। आन्ध्र-प्रदेशस्य तिरुपति-नगरात् उदग्रयान-मार्गेण राष्ट्रपतिः वेल्लोर-स्थितं श्रीपुरम्-स्वर्ण-मन्दिरं प्राप्तवती। तस्याः आगमने तमिलनाडु-राज्यस्य राज्यपालः आर्. एन्. रवी, केन्द्रीय-राज्य-मन्त्री एल्. मुरुगन्, तमिलनाडु-राज्यस्य हस्तशिल्प-मन्त्री गान्धी, वेल्लोर-जनपद-समाहर्त्री सुभुलक्ष्मी, जनपद-आरक्षक-अधीक्षकः मयिलवाकनन् तथा वेल्लोर-नगर-निगमस्य महापौरः सुझाता इत्यादयः तां सस्नेहं स्वीकृतवन्तः।

तदनन्तरं राष्ट्रपतिना प्रायः पञ्च-कोटि-रूप्यक-व्ययेन निर्मितस्य ध्यान-मण्डपस्य उद्घाटनं कृतम् तथा श्रीपुरम्-स्वर्ण-मन्दिरे दर्शनं कृतवती। राष्ट्रपतेः आगमनं दृष्ट्वा मन्दिर-परिसरे सामान्य-श्रद्धालूनां कृते दर्शनं अस्थायी-रूपेण प्रतिबन्धितं कृतम्।

राष्ट्रपतेः भ्रमणस्य दृष्ट्या श्रीपुरम्-स्वर्ण-मन्दिरं तथा तदनुयायी क्षेत्रं ‘रेड्-ज़ोन’ इति घोषितं कृतम्। सुरक्षा-व्यवस्था तमिलनाडु-विशेष-सुरक्षा-बलस्य नियन्त्रणे स्थापिता। मन्दिर-परिसरे द्वि-स्तरीय-सुरक्षा-व्यवस्था प्रवर्तिता तथा सम्पूर्णे श्रीपुरम्-क्षेत्रे प्रायः सहस्रं आरक्षकाः तैनाताः कृताः।

उल्लेखनीयं यत् राष्ट्रपतेः द्रौपदी-मुर्मु महोदयायाः तमिलनाडु, कर्नाटक तथा आन्ध्र-प्रदेश-भ्रमणस्य कार्यक्रमः पूर्वमेव निर्धारितः अस्ति। तस्यैव क्रमेन सा बुधवासरे तमिलनाडुं आगत्य वेल्लोर-नगरे आयोजिते कार्यक्रमे भागं गृहीतवती।-----------------

हिन्दुस्थान समाचार / अंशु गुप्ता