पीएसीस्थापना दिवसे मुख्यमंत्री योगी पुरस्कृतवान् सैनिकान्
लखनऊ, 17 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य बुधवासरे महानगरे स्थिते ३५ तम्या वाहिन्याः पी.ए.सी. मुख्यालये आयोजितं पी.ए.सी. स्थापना-दिवस-समारोहम् २०२५ शुभारम्भं कृतवान्। अस्मिन् अवसरॆ मुख्यमन्त्रीणा उत्कृष्टं कार्यं
उत्कृष्ट कार्य करने वाले पुलिस कर्मी को पुरस्कृत करते मुख्यमंत्री योगी


लखनऊ, 17 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य बुधवासरे महानगरे स्थिते ३५ तम्या वाहिन्याः पी.ए.सी. मुख्यालये आयोजितं पी.ए.सी. स्थापना-दिवस-समारोहम् २०२५ शुभारम्भं कृतवान्। अस्मिन् अवसरॆ मुख्यमन्त्रीणा उत्कृष्टं कार्यं कृत्वा कृतकर्मणाम् अधिकारिणां कृते ट्रॉफी-वितरणं कृतम्।

मुख्यमन्त्री योगी आदित्यनाथः स्वीय-सम्बोधने अवदत् यत् ७८ वर्षाणां दीर्घाय यात्रायै पी.ए.सी. बलस्य जवानान् अभिनन्दामि। एते ७८ वर्षाणि पी.ए.सी. बलस्य अनुशासनस्य त्यागस्य च समर्पणस्य गौरवशाली इतिहासः अस्ति। देशस्य सर्वाधिक-जनसंख्यायुक्ते राज्ये उत्तरप्रदेशे आन्तरिक-सुरक्षां सुदृढां कर्तुं आपद्-प्रबन्धने सर्वेषु महत्त्वपूर्णेषु पर्वेषु उत्सवेषु निर्वाचनकालेषु च शान्तिपूर्वकं कार्यं सम्पन्नयितुं पी.ए.सी. अग्रिमनेतृत्वे स्थित्वा निरन्तरं कार्यं कृतवती अस्ति। एतत् केवलं उत्तरप्रदेशे न अपि तु सम्पूर्णे देशे कार्यं कृतम्। मम स्मरणे अस्ति यत् १३ दिसम्बर् २००१ तमे दिने संसद्-भवने सम्पन्ने आतङ्कवादी-आक्रमणे पी.ए.सी. जवानैः सर्वे आतङ्कवादिनःसंघर्षे मारिताः आसन्। जुलै २००५ तमे वर्षे श्रीराम-जन्मभूमि-अयोध्या-परिसरे सम्पन्नेषु आतङ्कवादी-आक्रमणेषु सी.आर.पी.एफ., पी.ए.सी. तथा उत्तरप्रदेश-पुलिसेन संयुक्तरूपेण सर्वे आतङ्कवादिनः निहताः।

सः अवदत् यत् अस्माकं सरकारेण पी.ए.सी. बलस्य ४६ कम्पन्यः पुनर्जीविताः कृत्वा उत्तरप्रदेशस्य उत्तम-सुरक्षा-व्यवस्था स्थापिता तथा राज्यस्य उत्तमा प्रतिमा प्रस्तुता। पी.ए.सी. बलं स्वस्य क्षमता-प्रशिक्षण-तन्त्रज्ञान-स्तरे सशक्तं कर्तुं कार्यं निरन्तरं प्रचलति। अत्याधुनिकं तन्त्रज्ञानं सुरक्षोपकरणानि च प्रदत्तानि सन्ति। प्रशिक्षण-पाठ्यक्रमेषु अपि परिवर्तनं क्रियते। अद्य पी.ए.सी. बले सर्वाधिक-संख्यायां नवयुवकाः सन्ति। सेवाकाले दिवङ्गतानां जवानानां आश्रितेभ्यः सेवाः प्रदत्ताः। अस्माकं सर्वकारेण पुलिस-नियोजन-प्रक्रियायां न्यूनातिन्यूनं २० प्रतिशतं महिलानां आरक्षणं सुनिश्चितं कृतम्। एतत् ध्यानं कृत्वा पी.ए.सी. बलस्य चत्वारः महिला-बटालियनाः स्थाप्यन्ते।

मुख्यमन्त्रीणा उक्तं यत् विगत-अष्टवर्षेषु उत्तरप्रदेश-पुलिस-बले २.१९ लक्षं कार्मिकानां भर्तीः सम्पन्ना। अस्यां २० प्रतिशतं महिलानां आरक्षणं सुनिश्चितम्। उत्तरप्रदेश-पुलिस-बले ४४ सहस्रात् अधिकाः महिला-पुलिस-कर्मिण्यः सेवां ददति। पुलिस-प्रशिक्षण-क्षमता बहुगुणिता अभवत्। भग्न-खपरैल-भवनानां स्थाने उच्च-भवनानि उत्तरप्रदेशस्य अवस्थापना-सुविधायाः नूतन-उदाहरणानि अभवन्। सप्तसु जनपदेषु कमिश्नरेट्-प्रणाली प्रवर्तिता। आधुनिक-पुलिसिंग, साइबर्-आरक्षिस्थानं तथा साइबर्-सेल् उत्तरप्रदेश-पुलिसस्य विशेष-परिचयः अभवत्। लखनऊ-नगरे उत्तरप्रदेश-फॉरेंसिक्-इन्स्टिट्यूट्-स्थापनया फॉरेंसिक्-विज्ञान-परिसंस्था देशे अपि अत्याधुनिक-प्रशिक्षण-केन्द्रत्वेन प्रसिद्धा अभवत्। प्रदेशे १२ अत्याधुनिकाः फॉरेंसिक्-प्रयोगशालाः सिद्धाः सन्ति तेषु षट् नव्यरूपेण कार्यरताः।

मुख्यमन्त्रिणा उक्तं यत् मिशन्-शक्ति ५.० महिला-सुरक्षा-सम्मान-स्वावलम्बन-सहितं स्वास्थ्य-सशक्तिकरणं अपि वर्धयति। प्रथमवारं उत्तरप्रदेशे तिस्रः अतिरिक्ताः महिला-पी.ए.सी.-वाहिन्यः स्थापिताः—लखनऊ-नगरे वीराङ्गना ऊदा देवी, गोरखपुरे झलकारी बाई, बदायूं-नगरे अवन्ती बाई च। अन्यासां तिसॄणां महिला-वाहिनीनां स्थापने जालौन-मीरजापुरयोः भूमिः प्राप्ता अस्ति। बलरामपुरे भूमि-क्रय-प्रक्रिया प्रचलति। महिला-उपनिरीक्षक-पदेषु १०६ तथा महिला-आरक्षी-पदेषु २२८२ पदानां भर्ती-प्रक्रिया अपि शीघ्रतया वर्धते।

सः १७ नगर-निगमेषु सेफ्-सिटी-लक्ष्य-प्राप्तेः उल्लेखं कृत्वा उत्तरप्रदेश-विशेष-सुरक्षा-बलस्य षट् वाहिन्यः प्रदेशे महत्त्वपूर्ण-स्थलानां भवनानां च सुरक्षायां योगदानं दत्तवन्त्यः इति अवदत्।

मुख्यमन्त्रिणा उक्तं यत् उत्तरप्रदेशे यः आत्मविश्वासः दृश्यते तस्य पृष्ठे कानूनस्य राज्यं अस्ति। कानूनस्य राज्यं सुरक्षायाः उत्तमे वातावरणे सुशासनस्य दृढं प्रत्याभूतिं दातुं शक्नोति। सुशासनात् श्रेष्ठं निवेशं आगच्छति तस्मात् प्रदेशस्य विकासः भवति। युवानां उज्ज्वलं भविष्यं निर्मीयते। नूतनस्य उत्तरप्रदेशस्य शासनम् अत्रैव आरभ्यते।

अस्मिन् अवसरे राज्य-मन्त्री (स्वतन्त्र-प्रभारः) असीम अरुणः, प्रदेशस्य पुलिस-महानिदेशकः राजीव कृष्णः अन्ये मुख्य-अधिकारिणः जवानाः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार