Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, १७ दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजनपदे गृहरक्षकस्य रिक्तपदानां नियुक्ती-अवसरः युवानां कृते सुवर्णावसरं समर्पयति। उत्तरप्रदेश- आरक्षकनियुक्ती-एवम्-प्रोन्नतिकेन्द्रेण निर्गतविज्ञप्तेः अनुसारं मीरजापुरजनपदे कुलं ४७३ गृहरक्षकपदानां नामांकनं कर्तुं निश्चितम् अस्ति। अस्य कृते अन्तर्जालावेदनस्य अन्तिमा तिथिः १७ दिसम्बर इति निर्धारिता अस्ति।
जनपदगृहरक्षकनियंत्रकः विन्ध्याचलपाठकः अवदत् यत् इच्छुकाः अभ्यर्थिनः निर्धारितसमयसीमायाः अन्तर्गतं अन्तर्जालावेदनं कृत्वा आवेदनशुल्कमपि समर्पयितुं शक्नुवन्ति। नियुक्तीप्रक्रियायै अभ्यर्थिनः कस्यचित् मान्यताप्राप्तकेन्द्रात् दशमकक्षा उत्तीर्णता अनिवार्या अस्ति।
आयुसीमायाः अन्तर्गतं अभ्यर्थिनः आयुः १ जुलाई २०२५ तिथौ न्यूनतमा १८ वर्षाणि, अधिकतमा ३० वर्षाणि च भवितव्या। चयनप्रक्रियायां लिखितपरीक्षायां प्राप्ताङ्कैः सह अधिमानी-अर्हतासु प्राप्ताङ्कान् संयोज्य मेधासूची निर्मीयते, यस्याम् आरक्षणनीतेः अपि पालनं क्रियते।
अतिरिक्तं, गृहरक्षकपदानां नामांकनाय एतदपि आवश्यकं यत् अभ्यर्थी तस्यैव जनपदस्य मूलनिवासी भवेत्, यस्य जनपदस्य रिक्तपदेषु सः आवेदनं करोति।
हिन्दुस्थान समाचार / Dheeraj Maithani