Enter your Email Address to subscribe to our newsletters

नवदेहली/देहरादूनम्, १७ दिसम्बरमासः (हि.स.)। राष्ट्रियविज्ञानसंग्रहालयपरिषद् (एन्.सी.एस्.एम्.) पब्लिक-रिलेशन्स्-सोसाइटी-ऑफ्-इण्डिया (पीआरएसआई) संस्थायाः प्रतिष्ठितैः राष्ट्रीयपुरस्कारैः–२०२५ सम्मानिता अभवत्। एते पुरस्काराः परिषदः ‘हर्-घर् संग्रहालय’ इति अभियाने तथा ‘वेस्ट् टू आर्ट्’ (अपशिष्टात् कलाकृति) इति प्रकाशने प्रदानाः कृताः।
एन्.सी.एस्.एम्. तः बुधवासरे निर्गतायाः मुद्रणविज्ञप्तेः अनुसारं, एते सम्मानाः उत्तराखण्डस्य राजधानी देहरादूने १३ तः १५ दिसम्बर २०२५ पर्यन्तं आयोजिते पीआरएसआई-संस्थायाः ४७तमे अखिलभारतीये जनसम्पर्कसम्मेलने प्रदत्ताः। सम्मेलनस्य विषयः आसीत्—“२०४७ कृते जनसम्पर्कदृष्टिः : विकासस्य सशक्तीकरणम्, मूलानां संरक्षणम्”।
परिषदः विशेषप्रतिष्ठितप्रकाशनश्रेण्यां ‘वेस्ट् टू आर्ट्’ इति प्रकाशनस्य कृते द्वितीयः पुरस्कारः प्राप्तः। अस्मिन् प्रकाशने अपशिष्टसामग्र्याः निर्मिताभिः कलाकृतिभिः पर्यावरणसंरक्षणं, सर्जनशीलता तथा जनभागीदारीं प्रवर्धयन्तीनां एन्.सी.एस्.एम्.-प्रयत्नानां प्रलेखनं कृतम्। तत्र देशव्यापिन्यः एन्.सी.एस्.एम्.-एककासु आयोजितानां कार्यशालानां प्रतियोगितानां च उल्लेखः अपि विद्यते।
तथैव, कॉर्पोरेट्-अभियानान्तर्गतं सामाजिकमाध्यमेषु श्रेष्ठोपयोगश्रेण्यां ‘हर्-घर् संग्रहालय’ इति अभियानः द्वितीयपुरस्कारं अलभत। एषा नागरिककेन्द्रिता अन्तर्जलीयप्रयत्नः जनान् स्वीयपारिवारिकधरोहराणां, कलाकृतीनां, निजीसंग्रहाणां च चित्राणि, चलच्चित्राणि, कथाश्च सहभागं कर्तुं प्रेरयति। अस्य अभियानस्य माध्यमेन अद्यावधि दशलक्षाधिकाः जनाः सम्बद्धाः अभवन्, सामाजिकमाध्यमेषु च अस्य एककोटीदर्शनानि प्राप्तानि।
मुद्रणविज्ञप्तेः अनुसारं, एते पुरस्काराः एन्.सी.एस्.एम्.-पक्षात् निदेशकः (मुख्यालयः) राजीवनाथः तथा जनसम्पर्काधिकारी सत्यजित् ना. सिंहः स्वीकृतवन्तौ।
परिषदस्य महानिदेशकः ए.डी. चौधरी अवदत् यत्, एते सम्मानाः विज्ञानं, संस्कृतिं समाजं च संयोजयन्तीनां एन्.सी.एस्.एम्.-प्रयत्नानां अधिकं सशक्तीकरणं कर्तुं प्रेरणां दास्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता