Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 दिसंबरमासः (हि.स.)।राष्ट्रिय हेराल्डधनशोधनप्रकरणे प्रवर्तननिदेशालयस्य आरोपपत्रे दिल्लीस्थितन्यायालयेन संज्ञानं न गृहीतमिति कारणेन बुधवासरे विपक्षीयसांसदाः संसदपरिसरे मकरद्वारस्य समीपे विरोधप्रदर्शनं कृतवन्तः। कांग्रेसदलसहितं विपक्षीयदलगणस्य सांसदाः केन्द्रीय एजेन्सीनां कथितदुरुपयोगमिति विषयं निरूप्य सरकारतः उत्तरं प्रार्थितवन्तः, तथा च प्रधानमन्त्री नरेन्द्रमोदीतः क्षमायाचनां पदत्यागं च याचितवन्तः।
तस्मिन् प्रदर्शने सांसदानां हस्तेषु “सत्यमेव जयते” इति लिखितं महद्बैनरम् आसीत्, तथा च “प्रधानमन्त्री माफी मांगो” “प्रधानमन्त्री इस्तीफा दो” इत्यादीनि घोषवाक्यानि उद्घोषितानि। अस्मिन् प्रदर्शने कांग्रेसमहासचिवः केसी वेणुगोपालः, शशि थरूरः, राजीव रंजन पप्पू यादवः इत्यादयः अनेकाः सांसदाः सहभागीभूताः।
कांग्रेसमहासचिवः केसी वेणुगोपालः अवदत् यत् न्यायालयनिर्णयेन सत्यं प्रकाशं गतं, अधुना च कांग्रेसकार्यकर्तारः अस्य विषयस्य आन्दोलनं अधिकं तीव्रं करिष्यन्ति। कांग्रेससांसदः मणिकं टैगोरः संसदभवनपरिसरे पत्रकारैः सह संवादे अवदत् यत् न्यायालयेन प्रवर्तननिदेशालयस्य दुरुपयोगे स्पष्टः उत्तरः दत्तः। गतदशवर्षेषु सरकारेण नेशनल् हेराल्ड् प्रकरणे मिथ्याप्रचारः कृतः, अद्य तु दिल्लीस्थितन्यायालयनिर्णयेन सत्यं स्पष्टं जातम्।
शिवसेना उबीटी समूहस्य सांसदिका प्रियंका चतुर्वेदी पत्रकारैः सह संवादे अवदत् यत् प्रवर्तननिदेशालयः पूर्णतया सरकारस्य एजेण्डानुसारं कार्यं कुर्वन्निव दृश्यते। नेशनल् हेराल्ड् प्रकरणे न किञ्चन तथ्याधारः अस्ति, न च काचन वास्तविकता, एतेनैव कारणेन न्यायालयैः अस्मिन् विषये प्रश्नाः उपस्थिताः कृताः।
---------------
हिन्दुस्थान समाचार